रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः।
परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्ध्यत ॥ 3.8.1 ॥
उत्थाय तु यथाकालं राघवः सह सीतया।
उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ॥ 3.8.2 ॥
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ।
काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥ 3.8.3 ॥
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः।
सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ॥ 3.8.4 ॥
सुखोषितास्स्म भगवन् त्वया पूज्येन पूजिताः।
आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥ 3.8.5 ॥
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्।
ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥ 3.8.6 ॥
अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः।
धर्मनित्यैस्तपौदान्तैर्विशिखैरिव पावकैः ॥ 3.8.7 ॥
अविषह्यातपो यात्सूर्यो नातिविराजते।
अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥ 3.8.8 ॥
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः।
ववन्दे सहसौमित्रिस्सीतया सह राघवः ॥ 3.8.9 ॥
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः।
गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ॥ 3.8.10 ॥
अरिष्टं गच्छ पन्थानं राम सैमित्रिणा सह।
सीतया चानया सार्द्धं छाययेवानुवृत्तया ॥ 3.8.11 ॥
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्।
एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ 3.8.12 ॥
सप्राज्यफलमूलानि पुष्पितानि वनानि च।
प्रशस्तमृगयूथानि शान्तपक्षिगणानि च ॥ 3.8.13 ॥
फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि च।
कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ 3.8.14 ॥
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च।
रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ 3.8.15 ॥
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु।
आगन्तव्यं त्वाय तात पुनरेवाश्रमं मम ॥ 3.8.16 ॥
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः।
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥ 3.8.17 ॥
ततः शुभतरे तूणी धनुषी चायतेक्षणा।
ददौ सीता तयोर्भ्रात्रोः खङ्गौ च विमलौ ततः ॥ 3.8.18 ॥
आबध्य च शुभे तूणी चापौ चादाय सस्वनौ।
निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ ॥ 3.8.19 ॥
श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा।
प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ ॥ 3.8.20 ॥