रामस्तु सहितो भ्रात्रा सीतया च परन्तपः।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ 3.7.1 ॥
स गत्वाऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः।
ददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥ 3.7.2 ॥
ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः।
काननं तौ विविशतुस्सीतया सह राघवौ ॥ 3.7.3 ॥
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्।
ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ 3.7.4 ॥
तत्र तापसमासीनं मलपङ्कजटाधरम्।
रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ 3.7.5 ॥
रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः।
त्वं माऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ 3.7.6 ॥
स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ 3.7.7 ॥
स्वागतं खलु ते वीर राम धर्मभृतां वर।
आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ 3.7.8 ॥
प्रतीक्षमाणस्त्वामेव नारोहेऽहं माहायशः।
देवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ 3.7.9 ॥
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ॥ 3.7.10 ॥
उपागम्य च मां देवो महादेवस्सुरेश्वरः।
सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ॥ 3.7.11 ॥
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया।
मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ 3.7.12 ॥
तमुग्रतपसा युक्तं महर्षिं सत्यवादिनम्।
प्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ॥ 3.7.13 ॥
अहमेवाहरिष्यामि स्वयं लोकान्महामुने।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 3.7.14 ॥
भवान् सर्वत्र कुशलस्सर्वभूतहिते रतः।
आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ 3.7.15 ॥
एवमुक्तस्तु रामेण महर्षिर्लोकर्विश्रुतः।
अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ॥ 3.7.16 ॥
अयमोवाश्रमो राम गुणवान् रम्यतामिह।
ऋषिसङ्घानुचरितस्सदा मूलफलान्वितः ॥ 3.7.17 ॥
अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः।
नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ॥ 3.7.18 ॥
तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः।
उवाच वचनं धीरो विकृष्य सशरं घनुः ॥ 3.7.19 ॥
तानहं सुमहाभाग मृगसङ्घान् समागतान्।
हन्यां निशितधारेण शरेणाशनिवर्चसा ॥ 3.7.20 ॥
भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः।
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ 3.7.21 ॥
तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥ 3.7.22 ॥
अन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत्।
सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ 3.7.23 ॥
ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्।
ताभ्यां सुसुत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य ॥ 3.7.24 ॥