शरभङ्गे दिवं याते मिनिसङ्घाः समागताः।
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥ 3.6.1 ॥
वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः।
अश्मकुट्टाश्च बहवः पत्त्राहाराश्च धार्मिकाः ॥ 3.6.2 ॥
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे।
गात्रशय्या अशय्याश्चट तथैवाभ्रावकाशकाः ॥ 3.6.3 ॥
मुनयः सलिलाहारा वायुभक्षास्तथापरे।
आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ॥ 3.6.4 ॥
व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः।
सजपाश्च तपोनित्यास्तथा पञ्चतपोन्विताः ॥ 3.6.5 ॥
सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगास्समाहिताः।
शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥ 3.6.6 ॥
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्।
ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः ॥ 3.6.7 ॥
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ।
प्रधानश्चासि नाथश्च देवानां मघवानिव ॥ 3.6.8 ॥
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च।
पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥ 3.6.9 ॥
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्।
अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ॥ 3.6.10 ॥
अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः।
योहरेद्बलिषड्भागं न च रक्षति पुत्रवत् ॥ 3.6.11 ॥
युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव।
नित्ययुक्तस्सदा रक्षन् सर्वान् विषयवासिनः ॥ 3.6.12 ॥
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्।
ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते ॥ 3.6.13 ॥
यत्करोति परं धर्मं मुनिर्मूलफलाशनः।
तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ॥ 3.6.14 ॥
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्।
त्वन्नाथोऽनाथवद्राम राक्षसैर्बाध्यते भृशम् ॥ 3.6.15 ॥
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्।
हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ 3.6.16 ॥
पम्पानदीनिवासानामनुमन्दाकिनीमपि।
चित्रकूटालयानां च क्रियते कदनं महत् ॥ 3.6.17 ॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्।
क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ॥ 3.6.18 ॥
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः।
परिपालय नो राम वध्यमानान्निशाचरैः ॥ 3.6.19 ॥
परा त्वत्तो गतिर्विर पृथिव्यां नोपपद्यते।
परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज ॥ 3.6.20 ॥
एतच्छ्रुच्वा तु काकुत्स्थस्तापसानां तपस्विनाम्।
इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ॥ 3.6.21 ॥
नैवमर्हथ मां वक्तुमाज्ञप्तोऽहं तपस्विनाम्।
केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ 3.6.22 ॥
पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्।
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया ॥ 3.6.23 ॥
तस्य मेऽयं वने वासो भविष्यति महाफलः ॥ 3.6.24 ॥
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्।
पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ॥ 3.6.25 ॥
दत्त्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन।
तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः ॥ 3.6.26 ॥