००५ शरभङ्गस्य अग्निप्रवेशः

ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्।
अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ॥ 3.5.1 ॥
कष्टं वनमिदं दुर्गं न च स्म वनगोचराः।
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् ॥ 3.5.2 ॥
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह।
तस्य देवप्रभावस्य तपसा भावितात्मनः ॥ 3.5.3 ॥
समीपे शरभङ्गस्य ददर्श महदद्भतम्।
विभ्राजमानं वपुषा सूर्यवैश्वनरोपमम् ॥ 3.5.4 ॥
अवरुह्य रथोत्सङ्गात् सकाशे विबुधानुगम्।
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ॥ 3.5.5 ॥
सुप्रभाभरणं देवं विरजोम्बरधारिणम्।
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः ॥ 3.5.6 ॥
हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्।
ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् ॥ 3.5.7 ॥
पाण्डरभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम्।
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ॥ 3.5.8 ॥
चामरव्यजने चाग्य्रे रुक्मदण्डे महाधने।
गृहीते वरनारीभ्यां धूयमाने च मूर्द्धनि ॥ 3.5.9 ॥
गन्धर्वामरसिद्धाश्च बहवः परर्षयः।
अन्तरिक्षगतं देवं वाग्भिरग्य्राभिरीडिरे ॥ 3.5.10 ॥
सह सम्भाषमाणे तु शरभङ्गेन वासवे।
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ॥ 3.5.11 ॥
रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन् ॥ 3.5.12 ॥
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण।
प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥ 3.5.13 ॥
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः।
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ 3.5.14 ॥
इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम्।
शतं शतं कुण्डलिनो युवानः खङ्गपाणयः ॥ 3.5.15 ॥
विस्तीर्णविपुलोरस्काः परिघायतबाहवः।
शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः ॥ 3.5.16 ॥
उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः।
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ 3.5.17 ॥
एतद्धि किल देवानां वयो भवति नित्यदा।
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शानाः ॥ 3.5.18 ॥
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण।
यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे ॥ 3.5.19 ॥
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति।
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ 3.5.20 ॥
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः।
शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत् ॥ 3.5.21 ॥
इहोपयात्यसौ रामो यावन्मां नाभिभाषते।
निष्ठां नयतु तावत्तु ततो मां द्रष्टुमर्हति ॥ 3.5.22 ॥
कर्म ह्यनेन कर्त्तव्यं महदन्यैस्सुदुष्करम्।
निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ॥ 3.5.23 ॥
इति वज्री तमामन्त्र्य मानयित्वा च तापसम्।
रथेन हरियुक्तेन ययौ दिवमरिन्दमः ॥ 3.5.24 ॥
प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम्।
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥ 3.5.25 ॥
तस्य पादौ च सङ्गृह्य रामः सीता च लक्ष्मणः।
निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः ॥ 3.5.26 ॥
ततः शक्रोपयानं तु पर्यपृच्छत् स राघवः।
शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ॥ 3.5.27 ॥
मामेष वरदो राम ब्रह्म लोकं निनीषति।
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ 3.5.28 ॥
अहं ज्ञात्वा नरव्यघ्र वर्तमानमदूरतः।
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ 3.5.29 ॥
त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना।
समागम्य गमिष्यामि त्रिदिवं देवसोवितम् ॥ 3.5.30 ॥
अक्षया नरशार्दूल मया लोका जिताश्शुभाः।
ब्राह्म्याश्च नाकपृष्ट्याश्च प्रतिगृह्णीष्व मामकान् ॥ 3.5.31 ॥
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः।
ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ॥ 3.5.32 ॥
अहमेवाहरिष्यामि सर्वलोकान् महामुने।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 3.5.33 ॥
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै।
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ॥ 3.5.34 ॥
इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः।
वसत्यरण्ये धर्मात्मा स ते श्रेयो विधास्यति ॥ 3.5.35 ॥
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्।
रमणीये वनोद्देशे स ते वासं विधास्यति ॥ 3.5.36 ॥
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज।
नदीं पुष्पोडुपवहां तत्र तत्र गमिष्यसि ॥ 3.5.37 ॥
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्।
यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥ 3.5.38 ॥
ततोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित्।
शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥ 3.5.39 ॥
तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः।
जीर्णां त्वचं तथास्थीनि यच्च मांसं सशोणितम् ॥ 3.5.40 ॥
सामस्तु विस्मितो भ्रात्रा भार्यया च सहात्मवान् ॥ 3.5.41 ॥
स च पावकसङ्काशः कुमारः समपद्यत।
उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत ॥ 3.5.42 ॥
स लोकानाहिताग्नीनामृषीणां च महात्मनाम्।
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ 3.5.43 ॥
स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श ह।
पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह ॥ 3.5.44 ॥