००४ विराधवधः

ह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ।
उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥ 3.4.1 ॥
एष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः।
रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ 3.4.2 ॥
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा।
मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ 3.4.3 ॥
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ।
वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ 3.4.4 ॥
तस्य रोद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह।
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ 3.4.5 ॥
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः।
धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ॥ 3.4.6 ॥
मुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम्।
उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ 3.4.7 ॥
स विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ 3.4.8 ॥
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्।
भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ 3.4.9 ॥
तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ 3.4.10 ॥
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः।
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ 3.4.11 ॥
हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै।
मया तु पूर्वं त्वं मोहन्न ज्ञातः पुरुषर्षभः ॥ 3.4.12 ॥
कौसल्यासुप्रजा राम तात त्वं विदितो मया।
वैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ 3.4.13 ॥
अपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम्।
तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥ 3.4.14 ॥
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः।
यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ 3.4.15 ॥
इति वेश्रवणो राजा रम्भासक्तं पुराऽनघ।
अनुपस्थीयमानो मां सङ्क्रुद्धो व्याजहार ह ॥ 3.4.16 ॥
तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात्।
भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप ॥ 3.4.17 ॥
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥ 3.4.18 ॥
अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः।
तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥ 3.4.19 ॥
रक्षसां गतसत्त्वानामेष धर्मः सनातनः।
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ 3.4.20 ॥
एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः।
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ॥ 3.4.21 ॥
तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥ 3.4.22 ॥
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण।
वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रकर्मणः ॥ 3.4.23 ॥
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ 3.4.24 ॥
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम्।
अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ॥ 3.4.25 ॥
तं मुक्तकण्ठं निष्पिष्य शङ्कुकर्णं महास्वनम्।
विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ 3.4.26 ॥
तमाहवे निर्जितमाशुविक्रमौ स्थिरावुभौ संयति सामलक्ष्मणौ।
मदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम् ॥ 3.4.27 ॥
अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ।
समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ 3.4.28 ॥
स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः।
निवेदितः काननचारिणा स्ययं न मे वधः शस्त्रकृतो भवेदिति ॥ 3.4.29 ॥
तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने।
बिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥ 3.4.30 ॥
प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्याः प्रदरे निहत्य तौ।
ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ 3.4.31 ॥
ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्।
विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥ 3.4.32 ॥