००३ राम-विराधयुद्धम्

अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम्।
आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः ॥ 3.3.1 ॥
तमुवाच ततो रामो राक्षसं ज्वलिताननम्।
पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ॥ 3.3.2 ॥
क्षत्त्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ।
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ 3.3.3 ॥
तमुवाच विराधस्तु रामं सत्यपराक्रमम्।
हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥ 3.3.4 ॥
पुत्रः किल जयस्याहं मम माता शतह्रदा।
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥ 3.3.5 ॥
तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा।
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ 3.3.6 ॥
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्।
त्वरमाणौ पलायेथां न वां जीवितमाददे ॥ 3.3.7 ॥
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः।
राक्षसं विकृताकारं विराधं पापचेतसम् ॥ 3.3.8 ॥
क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्।
रणे सम्प्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यति ॥ 3.3.9 ॥
ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान्।
सुशीघ्रमभिसन्धाय राक्षसं निजघान ह ॥ 3.3.10 ॥
धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह।
रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् ॥ 3.3.11 ॥
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः।
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥ 3.3.12 ॥
स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः।
अभ्यद्रवत्सुसङ्क्रुद्धस्तदा रामं सलक्ष्मणम् ॥ 3.3.13 ॥
स विनद्य महानादं शूलं शक्रध्वजोपमम्।
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥ 3.3.14 ॥
अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः।
विराधे राक्षसे तस्मिन् कालान्तकयमोपमे ॥ 3.3.15 ॥
स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः।
जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ 3.3.16 ॥
स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः।
विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ 3.3.17 ॥
तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम्।
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ॥ 3.3.18 ॥
तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि।
पपाताशनिना छिन्नं मेरोरिव शिलातलम् ॥ 3.3.19 ॥
तौ खङ्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ।
तूर्णमापततस्तस्य तदा प्रहरतां बलात् ॥ 3.3.20 ॥
स वध्यमानस्सुभृशं बाहुभ्यां परिरभ्य तौ।
अप्रकम्प्यौ नरव्याघ्रौ रोद्रः प्रस्थातुमैच्छत ॥ 3.3.21 ॥
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत्।
वहत्वयमलं तावत् पथानेन तु राक्षसः ॥ 3.3.22 ॥
यथा चेच्छति सोमित्रे तथा वहतु राक्षसः।
अयमेव हि नः पन्था येन याति निशाचरः ॥ 3.3.23 ॥
स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः।
बालाविव स्कन्धगतौ चकारातिबलौ ततः ॥ 3.3.24 ॥
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः।
विराधो निनदन् घोरं जगामाभिमिखो वनम् ॥ 3.3.25 ॥
वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम्।
नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ॥ 3.3.26 ॥