००२ विराधेन सीतापहरणम्

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति।
आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ 3.2.1 ॥
नानामृगगणाकीर्णं शार्दूलवृकसेवितम्।
ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ 3.2.2 ॥
निष्कूजनानाशकुनिझिल्लिकागणनादितम्।
लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ॥ 3.2.3 ॥
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते।
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ 3.2.4 ॥
गम्भीराक्षं महावक्त्रं विकटं विषमोदरम्।
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ 3.2.5 ॥
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्।
त्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम् ॥ 3.2.6 ॥
सविषाणं वसादिग्धं गजस्य च शिरो महत्।
अवसज्यायसे शूले विनदन्तं महास्वनम् ॥ 3.2.7 ॥
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्।
अभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः ॥ 3.2.8 ॥
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्।
अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् ॥ 3.2.9 ॥
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ।
प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ॥ 3.2.10 ॥
कथं तापसयोर्वां च वासः प्रमदया सह।
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ 3.2.11 ॥
अहं वनमिदं दुर्गं विराधो नाम राक्षसः।
चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ 3.2.12 ॥
इयं नारी वरारोहा मम भार्या भविष्यति।
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ 3.2.13 ॥
तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ॥ 3.2.14 ॥
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा।
सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा ॥ 3.2.15 ॥
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्।
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ 3.2.16 ॥
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्।
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम् ॥ 3.2.17 ॥
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्।
कैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण ॥ 3.2.18 ॥
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ 3.2.19 ॥
ययाहं सर्वभूतानां हितः प्रस्थापितो वनम्।
अद्येदानीं सकामा सा या माता मम मध्यमा ॥ 3.2.20 ॥
परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे।
पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ॥ 3.2.21 ॥
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते।
अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ 3.2.22 ॥
अनाथ इव भूतानां नाथस्त्वं वासवोपमः।
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ 3.2.23 ॥
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ 3.2.24 ॥
राज्यकामे मम क्रोधो भरते यो बभूव ह।
तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले ॥ 3.2.25 ॥
मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि।
व्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः ॥ 3.2.26 ॥