प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्।
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥ 3.1.1 ॥
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृत्तम्।
यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम् ॥ 3.1.2 ॥
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं तथा।
मृगैर्बहुभिराकीर्णं पक्षिसङ्घैः समावृतम् ॥ 3.1.3 ॥
पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः।
विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ॥ 3.1.4 ॥
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्।
आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ॥ 3.1.5 ॥
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्।
पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ॥ 3.1.6 ॥
फलमूलाशनैर्दान्तश्चीरकृष्णाजिनाम्बरैः।
सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम् ॥ 3.1.7 ॥
तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्।
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ॥ 3.1.8 ॥
स दृष्ट्वा राघवः श्रीमान् तापसाश्रममण्डलम्।
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ॥ 3.1.9 ॥
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः।
अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम् ॥ 3.1.10 ॥
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥ 3.1.11 ॥
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्।
ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥ 3.1.12 ॥
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव।
आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ॥ 3.1.13 ॥
अत्रैनं हि महाभागाः सर्वभूतहिते रतम्।
अतिथिं पर्णशालायां राघवं सन्न्यवेशयन् ॥ 3.1.14 ॥
ततो रामस्य सत्कृत्य विधिना पावकोपमाः।
आजह्रुस्ते महाभागास्सलिलं धर्मचारिणः ॥ 3.1.15 ॥
मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः।
निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ॥ 3.1.16 ॥
धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः।
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥ 3.1.17 ॥
इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव।
राजा तस्माद्वरान् भोगान् भुङ्क्ते लोकनमस्कृतः ॥ 3.1.18 ॥
ते वयं भवता रक्ष्या भवद्विषयवासिनः।
नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ 3.1.19 ॥
न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः।
रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ॥ 3.1.20 ॥
एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्।
अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ 3.1.21 ॥
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः।
न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥ 3.1.22 ॥