११९ रामस्य दण्डकारण्यप्रवेशः

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम्।
पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ 2.119.1 ॥
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया।
रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥ 2.119.2 ॥
दिवसं प्रतिकीर्णानामाहारार्थं पतत्त्रिणाम्।
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥ 2.119.3 ॥
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः।
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥ 2.119.4 ॥
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम्।
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥ 2.119.5 ॥
अल्पपर्णाहि तरवो घनीभूताः समन्ततः।
विप्रकृष्टेपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ॥ 2.119.6 ॥
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ 2.119.7 ॥
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता।
जोत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ॥ 2.119.8 ॥
गम्यतामनुजानामि रामस्यानुचरी भव।
कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ 2.119.9 ॥
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि।
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ 2.119.10 ॥
सा तथा समलङ्कृत्य सीता सुरसुतोपमा।
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ 2.119.11 ॥
तथा तु भूषितां सीतां ददर्श वदतां वरः।
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ 2.119.12 ॥
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ 2.119.13 ॥
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः।
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ 2.119.14 ॥
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः।
अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ॥ 2.119.15 ॥
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान्।
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥ 2.119.16 ॥
तावूचुस्ते वनचरास्तापसा धर्मचारिणः।
वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ॥ 2.119.17 ॥
रक्षांसि पुरुषादानि नानारूपाणि राघव।
वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ॥ 2.119.18 ॥
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम्।
अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥ 2.119.19 ॥
एष पन्था महर्षीणां फलान्याहरतां वने।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ 2.119.20 ॥
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतः स्वस्त्ययनः परं तपः।
वनं सभार्य्यः प्रविवेश राघवः सलक्ष्मणः सूर्य्यमिवाभ्रमण्डलम् ॥ 2.119.21 ॥