सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ 2.118.1 ॥
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे।
विदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ 2.118.2 ॥
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ 2.118.3 ॥
किं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ 2.118.4 ॥
यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः।
तामेव नृपनारीणामन्यासामपि वर्त्तते ॥ 2.118.5 ॥
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः।
मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ 2.118.6 ॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम्।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ 2.118.7 ॥
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ।
अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥ 2.118.8 ॥
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि।
पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ 2.118.9 ॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ 2.118.10 ॥
वरिष्ठा सर्वनारीणामेषा च दिवि देवता।
रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ 2.118.11 ॥
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ 2.118.12 ॥
ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ 2.118.13 ॥
नियमैर्विविधैराप्तं तपो हि महदस्ति मे।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ 2.118.14 ॥
उपपन्नं मनोज्ञं च वचनं तव मैथिलि।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ 2.118.15 ॥
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ 2.118.16 ॥
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत्।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ 2.118.17 ॥
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ 2.118.18 ॥
मया दत्तमिदं सीते तव गात्राणि शोभयेत्।
अनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति ॥ 2.118.19 ॥
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे।
शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ 2.118.20 ॥
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ 2.118.21 ॥
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ 2.118.22 ॥
तथा सीतासुपासीनामनसूया दृढव्रता।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ 2.118.23 ॥
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना।
राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ 2.118.24 ॥
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ 2.118.25 ॥
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ 2.118.26 ॥
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्।
क्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ 2.118.27 ॥
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ 2.118.28 ॥
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत् ॥ 2.118.29 ॥
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ 2.118.30 ॥
अन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल।
एवमेतन्नरपते धर्मेण तनया तव ॥ 2.118.31 ॥
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ 2.118.32 ॥
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ 2.118.33 ॥
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ 2.118.34 ॥
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ 2.118.35 ॥
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः।
चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ 2.118.36 ॥
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन्।
सदृशं चानुरूपं च महीपालः पतिं मम ॥ 2.118.37 ॥
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम्।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ 2.118.38 ॥
महायज्ञे तदा तस्य वरुणेन महात्मना।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ 2.118.39 ॥
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात्।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ 2.118.40 ॥
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ 2.118.41 ॥
इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः।
तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ 2.118.42 ॥
तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम्।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ 2.118.43 ॥
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः।
लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ 2.118.44 ॥
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः।
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ 2.118.45 ॥
सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ।
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ 2.118.46 ॥
इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्।
निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ 2.118.47 ॥
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ 2.118.48 ॥
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः।
तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥ 2.118.49 ॥
ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ 2.118.50 ॥
दीयमानां न तु तदा प्रतिजग्राह राघवः।
अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ 2.118.51 ॥
ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ 2.118.52 ॥
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना।
भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ 2.118.53 ॥
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे।
अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ 2.118.54 ॥