११७ अत्र्याश्रमगमनम्

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन्।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ 2.117.1 ॥
इह मे भरतो दृष्टो मातरश्च सनागराः।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ 2.117.2 ॥
स्कन्धावारनिवेशेन तेन तस्य महात्मनः।
हयहस्तिकरीषैश्च उपमर्द्दः कृतो भृशम् ॥ 2.117.3 ॥
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ 2.117.4 ॥
सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः।
तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ 2.117.5 ॥
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम्।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ 2.117.6 ॥
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्।
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ 2.117.7 ॥
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः।
रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ 2.117.8 ॥
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम्।
यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ 2.117.9 ॥
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता।
दशवर्षसहस्राणि यया तप्तं महत्तपः ॥ 2.117.10 ॥
देवकार्यनिमित्तं च यया सन्त्वरमाणया।
दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥ 2.117.11 ॥
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा।
अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ 2.117.12 ॥
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ 2.117.13 ॥
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम्।
श्रेयोर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ॥ 2.117.14 ॥
सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः।
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ 2.117.15 ॥
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम्।
सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ 2.117.16 ॥
तां तु सीता महाभागामनसूयां पतिव्रताम्।
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ 2.117.17 ॥
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम्।
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ 2.117.18 ॥
ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ 2.117.19 ॥
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ 2.117.20 ॥
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ 2.117.21 ॥
दुःशीलः कामवृत्तो वा धनैवा परिवर्जितः।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ 2.117.22 ॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्।
सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ॥ 2.117.23 ॥
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः।
कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥ 2.117.24 ॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि।
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ 2.117.25 ॥
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः।
स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ 2.117.26 ॥
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी।
भवस्व भर्त्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि ॥ 2.117.27 ॥