११६ चित्रकूटे मुनि-रामसंवादः

प्रतिप्रयाते भरते वसन् रामस्तपोवने।
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ 2.116.1 ॥
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ 2.116.2 ॥
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किताः।
अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥ 2.116.3 ॥
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः।
कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ॥ 2.116.4 ॥
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि।
दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ॥ 2.116.5 ॥
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे।
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥ 2.116.6 ॥
कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि।
प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ 2.116.7 ॥
अथर्षिर्जरया वृद्धस्तपसा च जरां गतः।
वेपमान इवोवाच रामं भूतदयापरम् ॥ 2.116.8 ॥
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा।
चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥ 2.116.9 ॥
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते।
रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ॥ 2.116.10 ॥
रावणावरजः कश्चित् खरो नामेह राक्षसः।
उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ 2.116.11 ॥
धृष्टश्च जितकाशीं च नृशंसः पुरुषादकः।
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ 2.116.12 ॥
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे।
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ 2.116.13 ॥
दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि।
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥ 2.116.14 ॥
अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान्।
प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्याः पुरतः स्थिताः ॥ 2.116.15 ॥
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च।
रमन्ते तापसांस्तत्र नाशयन्तोऽल्पयेतसः ॥ 2.116.16 ॥
अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा।
कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ 2.116.17 ॥
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासवः।
गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ॥ 2.116.18 ॥
तत्पुरा राम शारीरीमुपहिंसां तपस्विषु।
दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ 2.116.19 ॥
बहुमूलफलं चित्रमविदूरादितो वनम्।
पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥ 2.116.20 ॥
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते।
सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्त्तते ॥ 2.116.21 ॥
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव।
समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥ 2.116.22 ॥
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम्।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकः ॥ 2.116.23 ॥
अभिनन्द्य समापृच्छ्य समाधाय च राघवम्।
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ 2.116.24 ॥
रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम्।
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ 2.116.25 ॥
आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न विजहौ स राघवः।
राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणाः ॥ 2.116.26 ॥