ततो निक्षिप्य मातॄः स अयोध्यायां दृढव्रतः।
भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ 2.115.1 ॥
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः।
तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥ 2.115.2 ॥
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम।
रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ 2.115.3 ॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः।
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ 2.115.4 ॥
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया।
वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ 2.115.5 ॥
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे।
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥ 2.115.6 ॥
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्।
अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ 2.115.7 ॥
प्रहृष्टवदनः सर्वा मातॄः समभिवाद्य सः।
आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः ॥ 2.115.8 ॥
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ।
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ 2.115.9 ॥
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः।
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् ॥ 2.115.10 ॥
बलं च तदनाहूतं गजाश्वरथसङ्कुलम्।
प्रययौ भरते याते सर्वे च पुरवासिनः ॥ 2.115.11 ॥
रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः।
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ 2.115.12 ॥
ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः।
अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ 2.115.13 ॥
एतद्राज्यं मम भ्रात्रा दत्तं सन्न्यासवत् स्वयम्।
योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ 2.115.14 ॥
भरतः शिरसा कृत्वा सन्न्यासं पादुके ततः।
अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम् ॥ 2.115.15 ॥
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ।
आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ 2.115.16 ॥
भ्रात्रा हि मयि सन्न्यासो निक्षिप्तः सौहृदादयम्।
तमिमं पालयिष्यामि राघवागमनं प्रति ॥ 2.115.17 ॥
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्।
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ 2.115.18 ॥
ततो निक्षिप्तभारोऽहं राघवेण समागतः।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ 2.115.19 ॥
राघवाय च सन्न्यासं दत्त्वे मे वरपादुके।
राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ 2.115.20 ॥
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने।
प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ 2.115.21 ॥
एवं तु विलपन् दीनो भरतः स महायशाः।
नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह ॥ 2.115.22 ॥
स वल्कलजटाधारी मुनिवेषधरः प्रभुः।
नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा ॥ 2.115.23 ॥
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः।
भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ 2.115.24 ॥
पादुके त्वभिषिच्याथ नन्द्रिग्रामेऽवसत्तदा।
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ 2.115.25 ॥
ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके।
तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ 2.115.26 ॥
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम्।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ 2.115.27 ॥