११४ अयोध्याप्रवेशः

स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ 2.114.1 ॥
बिडालोलूकचरितामालीननरवारणाम्।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ 2.114.2 ॥
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्।
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ 2.114.3 ॥
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम्।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ 2.114.4 ॥
विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम्।
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ 2.114.5 ॥
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम्।
हतप्रवीरामापन्नां चमूमिव महाहवे ॥ 2.114.6 ॥
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम्।
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ 2.114.7 ॥
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः।
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ 2.114.8 ॥
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम्।
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ 2.114.9 ॥
प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ 2.114.10 ॥
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम्।
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ 2.114.11 ॥
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम्।
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ 2.114.12 ॥
सम्मूढनिगमां स्तब्धां सङ्क्षिप्तविपणापणाम्।
प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ 2.114.13 ॥
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम्।
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ 2.114.14 ॥
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ 2.114.15 ॥
विपुलां विततां चैव युक्तपाशां तरस्विनाम्।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ 2.114.16 ॥
सहसा युद्धशौण्डेन हयारोहेण वाहिताम्।
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ 2.114.17 ॥
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम्।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ 2.114.18 ॥
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम्।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ 2.114.19 ॥
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम्।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ 2.114.20 ॥
भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ 2.114.21 ॥
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते।
यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ 2.114.22 ॥
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः।
धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ 2.114.23 ॥
प्रमत्तगजनादश्च महांश्च रथनिस्वनः।
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ 2.114.24 ॥
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः।
गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ॥ 2.114.25 ॥
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः।
नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ 2.114.26 ॥
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता।
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ 2.114.27 ॥
कदा नु खलु मे भ्राता महोत्सव इवागतः।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ 2.114.28 ॥
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ 2.114.29 ॥
एवं बहुविधं जल्पन् विवेश वसतिं पितुः।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ 2.114.30 ॥
तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम्।
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ 2.114.31 ॥