ततः शिरसि कृत्वा तु पादुके भरतस्तदा।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ 2.113.1 ॥
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ 2.113.2 ॥
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ 2.113.3 ॥
पश्यन् धातुसहस्राणि रम्याणि विविधानि च।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ 2.113.4 ॥
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा।
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ 2.113.5 ॥
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान्।
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ 2.113.6 ॥
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत्।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥ 2.113.7 ॥
एवमुक्तः स तु ततो भरद्वाजेन धीमता।
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥ 2.113.8 ॥
स याच्यमानो गुरुणा मया च दृढविक्रमः।
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ 2.113.9 ॥
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ 2.113.10 ॥
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ 2.113.11 ॥
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ 2.113.12 ॥
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः।
पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ 2.113.13 ॥
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ 2.113.14 ॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः।
भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ 2.113.15 ॥
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ 2.113.16 ॥
अमृतः स महाबाहुः पिता दशरथस्तव।
यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ 2.113.17 ॥
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः।
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ 2.113.18 ॥
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ 2.113.19 ॥
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ 2.113.20 ॥
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम्।
ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ 2.113.21 ॥
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः।
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ 2.113.22 ॥
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां सन्ददर्श ह ॥ 2.113.23 ॥
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम्।
भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् ॥ 2.113.24 ॥
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते।
निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ 2.113.25 ॥