११२ पादुकाप्रदानम्

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्।
विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ॥ 2.112.1 ॥
अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः।
तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ 2.112.2 ॥
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ।
श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे ॥ 2.112.3 ॥
ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः।
भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥ 2.112.4 ॥
कुले जात महाप्राज्ञ महावृत्त महायशः।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ 2.112.5 ॥
सदानृणमिमं रामं वयमिच्छामहे पितुः।
अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ 2.112.6 ॥
एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः।
राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥ 2.112.7 ॥
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः।
रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ 2.112.8 ॥
स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया।
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ 2.112.9 ॥
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम्।
कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ 2.112.10 ॥
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे।
पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ 2.112.11 ॥
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः।
त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः ॥ 2.112.12 ॥
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ 2.112.13 ॥
इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा।
भृशं सम्प्रार्थयामास राममेव प्रियंवदः ॥ 2.112.14 ॥
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत्।
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ 2.112.15 ॥
आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ 2.112.16 ॥
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः।
सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ 2.112.17 ॥
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्।
अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ॥ 2.112.18 ॥
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम्।
न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ 2.112.19 ॥
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्।
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ 2.112.20 ॥
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते।
एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ 2.112.21 ॥
सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च।
प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ 2.112.22 ॥
स पादुके सम्प्रणम्य रामं वचनमब्रवीत्।
चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ 2.112.23 ॥
फलमूलाशनो वीर भवेयं रघुनन्दन।
तवागमनमाकाङ्क्षन् वसन् वै नगराद्बहिः ॥ 2.112.24 ॥
चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम।
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ 2.112.25 ॥
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम्।
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ 2.112.26 ॥
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति।
मया च सीतया चैव शप्तोऽसि रघुसत्तम ॥ 2.112.27 ॥
इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥ 2.112.28 ॥
स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित्।
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ 2.112.29 ॥
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ।
व्यसर्जयद्राघववंशवर्द्धनः स्थिरः स्वधर्मे हिमवानिवाचलः ॥ 2.112.30 ॥
तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः।
स त्वेव मातॄरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः ॥ 2.112.31 ॥