१११ राम-भरतसंवादः

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः।
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ 2.111.1 ॥
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः।
आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ 2.111.2 ॥
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ।
प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ 2.111.3 ॥
सोऽहं ते पितुराचार्य्यस्तव चैव परन्तप।
मम त्वं वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ 2.111.4 ॥
इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा।
एषु तात चरन् धर्मं नातिवर्त्तेः सताङ्गतिम् ॥ 2.111.5 ॥
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम्।
अस्यास्तु वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥ 2.111.6 ॥
भरतस्य वचः कुर्वन् याचमानस्य राघव।
आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ 2.111.7 ॥
एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम्।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ 2.111.8 ॥
यन्मातापितरौ वृत्तं तनये कुरुतः सदा।
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ 2.111.9 ॥
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च।
नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ 2.111.10 ॥
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति**।
स हीति।जनयितापितेति गौणपितृव्यावृत्तिः।आज्ञातम् प्रतिज्ञातम्।एवं प्रथमं प्रतिज्ञातत्वात् मातृवचनं भ्रातृवचनं च कर्तुं नार्हामीति भावः ॥ 2.111.11 ॥
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम्।
उवाच परमोदारः सूतं परमदुर्मनाः ॥ 2.111.12 ॥
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे।
आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ 2.111.13 ॥
अनाहारो निरालोको धनहीनो यथा द्विजः।
शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ 2.111.14 ॥
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः।
कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ 2.111.15 ॥
तमुवाच महातेजा रामो राजर्षिसत्तमः।
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ 2.111.16 ॥
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति।
न तु मूर्द्धाभिषिक्तानां विधिः प्रत्युपवेशने ॥ 2.111.17 ॥
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम्।
पुरवर्य्यामितः क्षिप्रमयोध्यां याहि राघव ॥ 2.111.18 ॥
आसीनस्त्वेव भरतः पौरजानपदं जनम्।
उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥ 2.111.19 ॥
ते तमूचुर्महात्मानं पौरजानपदा जनाः।
काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥ 2.111.20 ॥
एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति।
अत एव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥ 2.111.21 ॥
तेषामाज्ञाय वचनं रामो वचनमब्रवीत्।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ 2.111.22 ॥
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव।
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ 2.111.23 ॥
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत्।
श्रृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ 2.111.24 ॥
न याचे पितरं राज्यं नानुशासामि मातरम्।
आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ 2.111.25 ॥
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः।
अहमेव निवत्स्यामि चतुर्दश समा वने ॥ 2.111.26 ॥
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः।
उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥ 2.111.27 ॥
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ 2.111.28 ॥
अपधिर्न मया कार्य्यो वनवासे जुगुप्सितः।
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ 2.111.29 ॥
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम्।
सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ 2.111.30 ॥
अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः।
भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ 2.111.31 ॥
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम्।
अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ 2.111.32 ॥