क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ 2.110.1 ॥
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान्।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ 2.110.2 ॥
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह।
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ॥ 2.110.3 ॥
असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः।
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥ 2.110.4 ॥
तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः ॥ 2.110.5 ॥
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः।
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ 2.110.6 ॥
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ 2.110.7 ॥
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः।
कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ 2.110.8 ॥
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्।
बाणस्य तु महाबाहुरनरण्यो महायशाः ॥ 2.110.9 ॥
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥ 2.110.10 ॥
तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत।
स सत्यवचनाद्वीरः सशरीरो दिवङ्गतः ॥ 2.110.11 ॥
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः।
धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥ 2.110.12 ॥
युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत।
मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ 2.110.13 ॥
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्।
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥ 2.110.14 ॥
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ 2.110.15 ॥
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ 2.110.16 ॥
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः।
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ 2.110.17 ॥
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः।
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ 2.110.18 ॥
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः।
धार्मिकश्च सुशीलश्च वंशकर्त्ताऽरिसूदनः ॥ 2.110.19 ॥
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम्।
ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ 2.110.20 ॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया।
गरेण सह तेनैव जातः स सगरोऽभवत् ॥ 2.110.21 ॥
स राजा सगरो नाम यः समुद्रमखानयत्।
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः ॥ 2.110.22 ॥
असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम्।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ 2.110.23 ॥
अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्य्यवान्।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ 2.110.24 ॥
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः।
ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन तु राघवाः ॥ 2.110.25 ॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः।
कल्माषपादः सौदास इत्येवं प्रथितो भुवि ॥ 2.110.26 ॥
कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ 2.110.27 ॥
शङ्खणस्य च पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः।
सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः ॥ 2.110.28 ॥
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः।
प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः ॥ 2.110.29 ॥
अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ 2.110.30 ॥
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ।
अजस्य चैव धर्मात्मा राजा दशरथः सुतः ॥ 2.110.31 ॥
तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ 2.110.32 ॥
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः।
पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ 2.110.33 ॥
स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि।
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः ॥ 2.110.34 ॥