१०९ जाबालिमतनिराकरणम्

जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः।
उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ 2.109.1 ॥
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान्।
अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ 2.109.2 ॥
निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः।
मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ 2.109.3 ॥
कुलीनमकुलीनं वा वीरं पुरुषमानिनम्।
चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥ 2.109.4 ॥
अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः।
लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ 2.109.5 ॥
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम्।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ 2.109.6 ॥
कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः।
बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ 2.109.7 ॥
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्।
अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ 2.109.8 ॥
कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते।
यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ 2.109.9 ॥
सत्यमेवानृशंसञ्च राजवृत्तं सनातनम्।
तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ 2.109.10 ॥
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे।
सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥ 2.109.11 ॥
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिनः।
धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ 2.109.12 ॥
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ 2.109.13 ॥
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च।
वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ 2.109.14 ॥
एकः पालयते लोकमेकः पालयते कुलम्।
मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ 2.109.15 ॥
सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये।
सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ 2.109.16 ॥
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वितः।
सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ 2.109.17 ॥
असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः।
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ 2.109.18 ॥
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्।
भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ 2.109.19 ॥
क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्।
क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ 2.109.20 ॥
कायेन कुरुते पापं मनसा सम्प्रधार्य च।
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ 2.109.21 ॥
भूमिः कीर्त्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि।
स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ 2.109.22 ॥
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम्।
आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ 2.109.23 ॥
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ।
भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ 2.109.24 ॥
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ।
प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ 2.109.25 ॥
वनवासं वसन्नेवं शुचिर्नियतभोजनः।
मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश्च तर्पयन् ॥ 2.109.26 ॥
सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्त्तये।
अकुहः श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षणः ॥ 2.109.27 ॥
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम्।
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ 2.109.28 ॥
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः।
तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ 2.109.29 ॥
अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम्।
अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ 2.109.30 ॥
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च।
द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ 2.109.31 ॥
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः।
धर्मं चरन्तः सकलं यथावत् काङ्क्षन्ति लोकागममप्रमत्ताः ॥ 2.109.32 ॥
निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम्।
बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ 2.109.33 ॥
यथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि।
तस्माद्धि यः शङ्क्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ 2.109.34 ॥
त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः।
जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजाः स्वस्ति हुतं कृतं च ॥ 2.109.35 ॥
धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः।
अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ 2.109.36 ॥
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्।
उवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥ 2.109.37 ॥
स चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता।
निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ 2.109.38 ॥