पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः।
प्रत्युवाच ततः श्रीमान् ज्ञातिमध्येऽभिसत्कृतः ॥ 2.107.1 ॥
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः।
जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ 2.107.2 ॥
पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ 2.107.3 ॥
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः।
सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ 2.107.4 ॥
ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ 2.107.5 ॥
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा।
तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ 2.107.6 ॥
तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ।
चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ 2.107.7 ॥
सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः।
सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥ 2.107.8 ॥
भवानपि तथेत्येव पितरं सत्यवादिनम्।
कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ 2.107.9 ॥
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम्।
पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ 2.107.10 ॥
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना।
गयेन यजमानेन गयेष्वेव पितॄन् प्रति ॥ 2.107.11 ॥
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः।
तस्मात् पुत्र इति प्रोक्तः पितॄन् यत्पाति वा सुतः ॥ 2.107.12 ॥
एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः।
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ 2.107.13 ॥
एवं राजर्षयः सर्वे प्रतीता राजनन्दन।
तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ 2.107.14 ॥
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय।
शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ॥ 2.107.15 ॥
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन्।
आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ 2.107.16 ॥
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम्।
गच्छत्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ 2.107.17 ॥
छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम्।
एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ 2.107.18 ॥
शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम्।
चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ 2.107.19 ॥