ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम्।
उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ 2.106.1 ॥
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम।
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ 2.106.2 ॥
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ 2.106.3 ॥
यथा मृतस्तथा जीवन् यथाऽसति तथा सति।
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ॥ 2.106.4 ॥
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप।
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ 2.106.5 ॥
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः।
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ 2.106.6 ॥
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम्।
अविषह्यतमं दुःखमासादयितुमर्हति ॥ 2.106.7 ॥
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम्।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ 2.106.8 ॥
धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ 2.106.9 ॥
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः।
जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ 2.106.10 ॥
गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥ 2.106.11 ॥
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम्।
स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ 2.106.12 ॥
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः।
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ 2.106.13 ॥
साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात्।
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ 2.106.14 ॥
तदपत्यं मतं लोके विपरीतमतोऽन्यथा**।
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ 2.106.15 ॥
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ 2.106.16 ॥
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः।
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ 2.106.17 ॥
क्व चारण्यं क्व च क्षात्त्र क्व जटाः क्व च पालनम्।
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ 2.106.18 ॥
एष हि प्रथमो धर्मः क्षत्त्रियस्याभिषेचनम्।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ 2.106.19 ॥
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम्।
आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम् ॥ 2.106.20 ॥
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि।
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ 2.106.21 ॥
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्।
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ 2.106.22 ॥
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ 2.106.23 ॥
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम्।
भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ 2.106.24 ॥
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम्।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ 2.106.25 ॥
इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह।
ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ 2.106.26 ॥
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज।
विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ 2.106.27 ॥
ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्द्दहन्।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ 2.106.28 ॥
अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने।
अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥ 2.106.29 ॥
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ 2.106.30 ॥
शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ 2.106.31 ॥
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः।
गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ 2.106.32 ॥
तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः।
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थितः ॥ 2.106.33 ॥
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः।
न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ 2.106.34 ॥
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातरः।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ 2.106.35 ॥