१०५ रामं प्रति भरतस्य प्रार्थना

ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः।
शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत ॥ 2.105.1 ॥
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ 2.105.2 ॥
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत्।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ 2.105.3 ॥
सान्त्विता मामिका माता दत्तं राज्यमिदं मम।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ 2.105.4 ॥
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ 2.105.5 ॥
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्त्रिणः।
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ 2.105.6 ॥
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते।
राम तेन तु दुर्जीवं यः परानुपजीवति ॥ 2.105.7 ॥
यथा तु रोपितो वृक्षः पुरुषेण विवर्द्धितः।
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥ 2.105.8 ॥
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत्।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥ 2.105.9 ॥
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि।
यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ 2.105.10 ॥
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः।
प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ 2.105.11 ॥
तवाऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः।
अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥ 2.105.12 ॥
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः।
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ 2.105.13 ॥
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्।
रामः कृतात्मा भरतं समाश्वासय दात्मवान् ॥ 2.105.14 ॥
नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ 2.105.15 ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ 2.105.16 ॥
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम्।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ 2.105.17 ॥
यथागारं दृढस्थूणं जीर्णं भूत्वाऽवसीदति।
तथैव सीदन्ति नरा जरामृत्युवशङ्गताः ॥ 2.105.18 ॥
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते।
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ 2.105.19 ॥
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ 2.105.20 ॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ 2.105.21 ॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति।
गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ 2.105.22 ॥
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ 2.105.23 ॥
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ 2.105.24 ॥
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम्।
ऋतूनां परिवर्त्तेन प्राणिनां प्राणसङ्क्षयः ॥ 2.105.25 ॥
यथा काष्ठं च काष्ठं च समेयातां महार्णवे।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ 2.105.26 ॥
एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ 2.105.27 ॥
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते।
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ 2.105.28 ॥
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः।
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ 2.105.29 ॥
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः।
तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः ॥ 2.105.30 ॥
वयसः पतमानस्य स्रोतसो वाऽनिवर्तिनः।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ 2.105.31 ॥
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः।
धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥ 2.105.32 ॥
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात्।
अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ॥ 2.105.33 ॥
कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ 2.105.34 ॥
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान्।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ 2.105.35 ॥
आयुरुत्तममासाद्य भोगानपि च राघवः।
स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ 2.105.36 ॥
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ 2.105.37 ॥
तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति।
तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ॥ 2.105.38 ॥
एते बहुविधाः शोका विलापरुदिते तथा।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ 2.105.39 ॥
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम्।
तथा पित्रा नियुक्तोऽसि वशिना वदतां वर ॥ 2.105.40 ॥
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा।
तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ 2.105.41 ॥
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम।
तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥ 2.105.42 ॥
तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः।
कर्मणा पालयिष्यामि वनवासेन राघव ॥ 2.105.43 ॥
धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना।
भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ 2.105.44 ॥
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ।
निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥ 2.105.45 ॥
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम्।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ 2.105.46 ॥