तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम्।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ 2.104.1 ॥
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया।
यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ 2.104.2 ॥
किं निमित्तमिमं देशं कृष्णाजिनजटाधरः।
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ 2.104.3 ॥
इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना।
प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ 2.104.4 ॥
आर्य्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्।
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ 2.104.5 ॥
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप।
चकार सुमहत्पापमिदमात्मयशोहरम् ॥ 2.104.6 ॥
सा राज्यफलमप्राप्य विधवा शोककर्शिता।
पतिष्यति महाघोरे निरये जननी मम ॥ 2.104.7 ॥
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि।
अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ 2.104.8 ॥
इमाः प्रकृतयः सर्वा विधवा मातरश्च याः।
त्वत्सकाशमनुप्राप्ताः प्रसादं कर्त्तुमर्हसि ॥ 2.104.9 ॥
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद।
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥ 2.104.10 ॥
भवत्वविधवा भूमिः समग्रा पतिना त्वया।
शशिना विमलेनेव शारदी रजनी यथा ॥ 2.104.11 ॥
एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया।
भ्रातुः शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ 2.104.12 ॥
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम्।
पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ 2.104.13 ॥
एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः।
रामस्य शिरसा पादौ जग्राह विधिवत्पुनः ॥ 2.104.14 ॥
तं मत्तमिव मातङ्गं निःश्वसन्तं पुनःपुनः।
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ 2.104.15 ॥
कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः।
राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ 2.104.16 ॥
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन।
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ 2.104.17 ॥
कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ।
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ 2.104.18 ॥
वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः।
भार्य्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ 2.104.19 ॥
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम्।
राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥ 2.104.20 ॥
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम्।
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ 2.104.21 ॥
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव।
मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ॥ 2.104.22 ॥
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्।
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ 2.104.23 ॥
एवं कृत्वा महाराजो विभागं लोकसन्निधौ।
व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ 2.104.24 ॥
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव।
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ 2.104.25 ॥
चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः।
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ 2.104.26 ॥
यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः।
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ 2.104.27 ॥