१०३ रामादीनां शोकः

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ 2.103.1 ॥
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति।
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ 2.103.2 ॥
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता।
सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ॥ 2.103.3 ॥
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम्।
वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ॥ 2.103.4 ॥
इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ 2.103.5 ॥
जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः।
भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः ॥ 2.103.6 ॥
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः।
नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ 2.103.7 ॥
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ 2.103.8 ॥
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ 2.103.9 ॥
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ 2.103.10 ॥
तस्य देवसमानस्य पार्थिवस्य महात्मनः।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ 2.103.11 ॥
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः।
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ 2.103.12 ॥
अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा।
यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ 2.103.13 ॥
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ 2.103.14 ॥
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 2.103.15 ॥
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ 2.103.16 ॥
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः।
आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ 2.103.17 ॥
तासां रामः समुत्थाय जग्राह चरणान् शुभान्।
मातॄणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥ 2.103.18 ॥
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः।
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ 2.103.19 ॥
सौमित्रिरपि ताः सर्वाः मातॄः सम्प्रेक्ष्य दुःखितः।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ 2.103.20 ॥
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ 2.103.21 ॥
सीतापि चरणांस्तासामुपसङ्गृह्य दुःखिता।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ 2.103.22 ॥
तां परिष्वज्य दुःखार्त्तां माता दुहितरं यथा।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ 2.103.23 ॥
विदेहराजस्य सुता स्नुषा दशरथस्य च।
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ 2.103.24 ॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम्।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ 2.103.25 ॥
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ 2.103.26 ॥
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ 2.103.27 ॥
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः।
प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ 2.103.28 ॥
ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ 2.103.29 ॥
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम्।
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ 2.103.30 ॥
किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ 2.103.31 ॥
स राघवः सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिकः।
वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयोऽग्नयः ॥ 2.103.32 ॥