तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्।
राघवो भरतेनोक्तां बभूव गतचेतनः ॥ 2.102.1 ॥
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा।
वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ॥ 2.102.2 ॥
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः।
वने परशुना कृत्तस्तथा भुवि पपात ह ॥ 2.102.3 ॥
तथा निपतितं रामं जगत्यां जगतीपतिम्।
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ 2.102.4 ॥
भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्।
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ 2.102.5 ॥
स तु सञ्ज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन्।
उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम् ॥ 2.102.6 ॥
स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम्।
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ 2.102.7 ॥
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते।
कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ 2.102.8 ॥
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मनः।
यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ 2.102.9 ॥
अहो भरत सिद्धार्थो येन राजा त्वयाऽनघ।
शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ 2.102.10 ॥
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम्।
निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ 2.102.11 ॥
समाप्तवनवासं मामयोध्यायां परन्तप।
को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ 2.102.12 ॥
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्।
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ 2.102.13 ॥
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः।
उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ 2.102.14 ॥
सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण।
भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ 2.102.15 ॥
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत।
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ 2.102.16 ॥
ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम्।
अब्रुवन् जगतीभर्त्तुः क्रियतामुदकं पितुः ॥ 2.102.17 ॥
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम्।
नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ 2.102.18 ॥
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ 2.102.19 ॥
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ 2.102.20 ॥
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज।
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ 2.102.21 ॥
ततो नित्यानुगस्तेषां विदितात्मा महामतिः।
मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ 2.102.22 ॥
सुमन्त्रस्तैर्नृपसुतैः सार्द्धमाश्वास्य राघवम्।
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ 2.102.23 ॥
ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः।
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ 2.102.24 ॥
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम्।
सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ 2.102.25 ॥
प्रगृह्य च महीपालो जलपूरितमञ्जलिम्।
दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ 2.102.26 ॥
एतत्ते राजशार्दूल विमलं तोयमक्षयम्।
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ 2.102.27 ॥
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघवः।
पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥ 2.102.28 ॥
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे।
न्यस्य रामः सुदुःखार्त्तो रुदन् वचनमब्रवीत् ॥ 2.102.29 ॥
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम्।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ 2.102.30 ॥
ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात्।
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ 2.102.31 ॥
ततः पर्णकुटीद्वारमासाद्य जगतीपतिः।
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ 2.102.32 ॥
तेषां तु रुदतां शब्दात् प्रतिश्रुत्कोऽभवद्गिरौ।
भ्रातॄणां सह वैदेह्याः सिंहानामिव नर्दताम् ॥ 2.102.33 ॥
महाबलानां रुदतां कुर्वतामुदकं पितुः।
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ॥ 2.102.34 ॥
अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम्।
तेषामेव महाञ्छब्दः शोचतां पितरं मृतम् ॥ 2.102.35 ॥
अथ वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम्।
अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥ 2.102.36 ॥
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः।
सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ 2.102.37 ॥
अचिरप्रोषितं रामं चिरविप्रोषितं यथा।
द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥ 2.102.38 ॥
भ्रातॄणां त्वरितास्तत्र द्रष्टुकामाः समागमम्।
ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥ 2.102.39 ॥
सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता।
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ 2.102.40 ॥
तेन वित्रासिता नागाः करेणुपरिवारिताः।
आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ 2.102.41 ॥
वराहवृकसङ्घाश्च महिषाः सर्प्पवानराः।
व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥ 2.102.42 ॥
रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः।
तथा पुंस्कोकिलाः क्रौञ्चा विसञ्ज्ञा भेजिरे दिशः ॥ 2.102.43 ॥
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्।
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ 2.102.44 ॥
ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम्।
आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ 2.102.45 ॥
विगर्हमाणः कैकेयीं सहितो मन्थरामपि।
अभिगम्य जनो रामं बाष्पपूर्णमुखोऽभवत् ॥ 2.102.46 ॥
तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान्।
पर्य्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ 2.102.47 ॥
स तत्र काञ्च्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन्।
चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मजः ॥ 2.102.48 ॥
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वनः।
गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥ 2.102.49 ॥