रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह।
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ 2.101.1 ॥
शाश्वतोऽयं सदा धर्म्मः स्थितोऽस्मासु नरर्षभ।
ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ 2.101.2 ॥
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव।
अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ 2.101.3 ॥
राजानं मानुषं प्राहुर्देवत्वे स मतो मम।
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ 2.101.4 ॥
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते।
दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ 2.101.5 ॥
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे।
दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ 2.101.6 ॥
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः।
अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ 2.101.7 ॥
प्रियेण खलु दत्तं हि पितृलोकेषु राघव।
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ 2.101.8 ॥
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम्।
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमितः पिता ते ॥ 2.101.9 ॥