१०० रामस्य कुशलप्रश्नः

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि।
ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ 2.100.1 ॥
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम्।
भ्रातरं भरतं रामः परिजग्राह बाहुना ॥ 2.100.2 ॥
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः।
अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ 2.100.3 ॥
क्व नु तेऽभूत् पिता तात यदरण्यं त्वमागतः।
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ 2.100.4 ॥
चिरस्य बत पश्यामि दूराद्भरतमागतम्।
दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः ॥ 2.100.5 ॥
कच्चिद्धारयते तात राजा यत्त्वमिहागतः।
कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ 2.100.6 ॥
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ 2.100.7 ॥
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ 2.100.8 ॥
कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः।
राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः ॥ 2.100.9 ॥
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः।
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ 2.100.10 ॥
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती।
सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ 2.100.11 ॥
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः।
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ 2.100.12 ॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः।
हुतं च होष्यमाणं च काले वेदयते सदा ॥ 2.100.13 ॥
कच्चिद्देवान् पितॄन् मातॄर्गुरून् पितृसमानपि।
वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ 2.100.14 ॥
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम्।
सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ 2.100.15 ॥
कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः।
कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ 2.100.16 ॥
मन्त्रो विजयमूलं हि राज्ञां भवति राघव।
सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ 2.100.17 ॥
कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ 2.100.18 ॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह।
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ 2.100.19 ॥
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्।
क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ 2.100.20 ॥
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः।
विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवाः ॥ 2.100.21 ॥
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः।
त्वया वा वाऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ 2.100.22 ॥
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम्।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं महत् ॥ 2.100.23 ॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः।
अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ 2.100.24 ॥
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः।
राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ 2.100.25 ॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः।
जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ 2.100.26 ॥
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन्।
श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ 2.100.27 ॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम्।
राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ 2.100.28 ॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 2.100.29 ॥
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम्।
शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ 2.100.30 ॥
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ 2.100.31 ॥
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः।
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ 2.100.32 ॥
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्।
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ 2.100.33 ॥
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः।
भर्त्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥ 2.100.34 ॥
कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ 2.100.35 ॥
कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान्।
यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ 2.100.36 ॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ 2.100.37 ॥
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा।
दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ 2.100.38 ॥
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे।
अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ 2.100.39 ॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ 2.100.40 ॥
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः।
सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ 2.100.41 ॥
ब्राह्मणैः क्षत्त्रियैर्वैश्यैः स्वकर्मनिरतैः सदा।
जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥ 2.100.42 ॥
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्।
कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ 2.100.43 ॥
कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः।
देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ 2.100.44 ॥
प्रहृष्टनरनारीकः समाजोत्सवशोभितः।
सुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः ॥ 2.100.45 ॥
अदेवमातृको रम्यः श्वापदैः परिवर्जितः।
परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ 2.100.46 ॥
विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः।
कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ 2.100.47 ॥
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः।
वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ 2.100.48 ॥
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ 2.100.49 ॥
कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः।
कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ 2.100.50 ॥
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः।
कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ 2.100.51 ॥
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्।
उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ 2.100.52 ॥
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ 2.100.53 ॥
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ 2.100.54 ॥
आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः।
अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ 2.100.55 ॥
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ 2.100.56 ॥
कच्चिदार्य्यो विशुद्धात्माऽऽक्षारितश्चोरकर्मणा।
अपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 2.100.57 ॥
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः।
कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ 2.100.58 ॥
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव।
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ 2.100.59 ॥
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव।
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥ 2.100.60 ॥
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव।
दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ 2.100.61 ॥
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन्।
चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ 2.100.62 ॥
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः।
उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ 2.100.63 ॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर।
विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ 2.100.64 ॥
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः।
आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ 2.100.65 ॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ 2.100.66 ॥
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्।
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ 2.100.67 ॥
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः।
कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ 2.100.68 ॥
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ 2.100.69 ॥
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम्।
कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ 2.100.70 ॥
यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ।
कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ 2.100.71 ॥
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा।
कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः ॥ 2.100.72 ॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 2.100.73 ॥
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव।
आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ 2.100.74 ॥
यां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः।
तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ 2.100.75 ॥
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव।
कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ 2.100.76 ॥
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम्।
अवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ 2.100.77 ॥