निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः।
अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ 2.98.1 ॥
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्।
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ 2.98.2 ॥
क्षिप्रं वनमिदं सौम्य नरसङ्घैः समन्ततः।
लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ 2.98.3 ॥
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा।
समन्वेषतु काकुत्स्थावस्मिन् परिवृतः स्वयम् ॥ 2.98.4 ॥
अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः।
वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥ 2.98.5 ॥
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्।
वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ 2.98.6 ॥
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्।
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ 2.98.7 ॥
यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ।
शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ 2.98.8 ॥
यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः।
अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति ॥ 2.98.9 ॥
सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम्।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ 2.98.10 ॥
कृतकत्या महाभागा वैदेही जनकात्मजा।
भर्तारं सागरान्तायाः पृथिव्या याऽनुगच्छति ॥ 2.98.11 ॥
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।
यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ 2.98.12 ॥
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।
यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥ 2.98.13 ॥
एवमुक्त्वा महातेजा भरतः पुरुषर्षभः।
पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ 2.98.14 ॥
स तानि द्रुमजालानि जातानि गिरिसानुषु।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ 2.98.15 ॥
रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्**।
समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्तिः ॥ 2.98.16 ॥
तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः।
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥ 2.98.17 ॥
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्।
गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ 2.98.18 ॥