सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्।
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ 2.97.1 ॥
किमत्र धनुषा कार्यमसिना वा सचर्मणा।
महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ 2.97.2 ॥
पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्।
किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ 2.97.3 ॥
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्।
नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ 2.97.4 ॥
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण।
इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ 2.97.5 ॥
भ्रातॄणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण।
राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ 2.97.6 ॥
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा।
नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ 2.97.7 ॥
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद।
भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ 2.97.8 ॥
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः।
मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥ 2.97.9 ॥
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्।
जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ 2.97.10 ॥
स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः।
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गतः ॥ 2.97.11 ॥
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्।
प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥ 2.97.12 ॥
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति।
अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ 2.97.13 ॥
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्।
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ 2.97.14 ॥
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः।
अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ 2.97.15 ॥
कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ॥ 2.97.16 ॥
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ 2.97.17 ॥
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः।
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ 2.97.18 ॥
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ 2.97.19 ॥
तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह।
त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥ 2.97.20 ॥
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह।
एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ॥ 2.97.21 ॥
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ 2.97.22 ॥
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्।
पिता मे राघवः श्रीमान् वनादादाय यास्यति ॥ 2.97.23 ॥
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ 2.97.24 ॥
स एष सुमहाकायः कम्पते वाहिनीमुखे।
नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ॥ 2.97.25 ॥
न तु पश्यामि तच्छत्त्रं पाण्डरं लोकसत्कृतम्।
पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ 2.97.26 ॥
इतीव रामो धर्मात्मा सौमित्रिं तुमवाच ह**।
प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ 2.97.27 ॥
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ 2.97.28 ॥
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति।
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ 2.97.29 ॥
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा।
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ 2.97.30 ॥
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्।
प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ 2.97.31 ॥