तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम्।
निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ 2.96.1 ॥
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना।
एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ 2.96.2 ॥
तथा तत्रासतस्तस्य भरतस्योपयायिनः।
सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ 2.96.3 ॥
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः।
अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥ 2.96.4 ॥
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः।
तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ 2.96.5 ॥
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम्।
उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ 2.96.6 ॥
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया।
भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥ 2.96.7 ॥
गजयूथानि वाऽरण्ये महिषा वा महावने।
वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ॥ 2.96.8 ॥
राजा वा राजमात्रो वा मृगयामटते वने।
अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ 2.96.9 ॥
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण।
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ 2.96.10 ॥
स लक्ष्मणः सन्त्वरितः सालमारुह्य पुष्पितम्।
प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमुदैक्षत ॥ 2.96.11 ॥
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्।
रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः ॥ 2.96.12 ॥
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम्।
शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ 2.96.13 ॥
अग्निं संशमयत्वार्यः सीता च भजतां गुहाम्।
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ 2.96.14 ॥
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह।
अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ 2.96.15 ॥
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्।
दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ 2.96.16 ॥
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम्।
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ 2.96.17 ॥
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते।
विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ 2.96.18 ॥
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान्।
एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः ॥ 2.96.19 ॥
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै।
अथवेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ ॥ 2.96.20 ॥
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ 2.96.21 ॥
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्।
त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ 2.96.22 ॥
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात्।
सम्प्राप्तोऽयमरिर्वीर भरतो वध्य एव मे ॥ 2.96.23 ॥
भरतस्य वधे दोषं नाहं पश्यामि राघव।
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ 2.96.24 ॥
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव।
एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ 2.96.25 ॥
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका।
मया पश्येत् सुदुःखार्त्ता हस्तिभग्नमिव द्रुमम् ॥ 2.96.26 ॥
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्।
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ 2.96.27 ॥
अद्येमं संयतं क्रोधमसत्कारं च मानद।
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ 2.96.28 ॥
अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः।
भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ 2.96.29 ॥
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा।
श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया ॥ 2.96.30 ॥
शराणां धनुषश्चाहमनृणोऽस्मि महामृधे।
ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ 2.96.31 ॥