अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः।
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ 2.95.1 ॥
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम्।
विदेहराजस्य सुतां रामो राजीवलोचनः ॥ 2.95.2 ॥
विचित्रपुलिनां रम्यां हंससारससेविताम्।
कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ 2.95.3 ॥
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः।
राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ 2.95.4 ॥
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्।
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ 2.95.5 ॥
जटाजिनधराः काले वल्कलोत्तरवाससः।
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ 2.95.6 ॥
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहवः।
एते परे विशालाक्षि मुनयः संशितव्रताः ॥ 2.95.7 ॥
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः।
पादपैः पत्त्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ 2.95.8 ॥
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम्।
क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ 2.95.9 ॥
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान्।
पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ 2.95.10 ॥
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः।
अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ 2.95.11 ॥
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने।
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ 2.95.12 ॥
विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ 2.95.13 ॥
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम्।
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ 2.95.14 ॥
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम्।
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ 2.95.15 ॥
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ 2.95.16 ॥
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः।
नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥ 2.95.17 ॥
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः।
सुपुष्पितैः पुष्पधरैरलङ्कृतां न सोऽस्ति यः स्यादगतक्लमः सुखी ॥ 2.95.18 ॥
इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन्।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धनः ॥ 2.95.19 ॥