०९४ चित्रकूटे सीतारामसंवादः

दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः।
वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन् ॥ 2.94.1 ॥
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्।
भार्य्याममरसङ्काशः शचीमिव पुरन्दरः ॥ 2.94.2 ॥
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ 2.94.3 ॥
पश्येममचलं भद्रे नानाद्विजगणायुतम्।
शिखरैः खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ 2.94.4 ॥
केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः।
पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ 2.94.5 ॥
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः।
विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ 2.94.6 ॥
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥ 2.94.7 ॥
आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः।
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ॥ 2.94.8 ॥
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा।
बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ 2.94.9 ॥
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः।
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ 2.94.10 ॥
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान्।
किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः ॥ 2.94.11 ॥
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च।
पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ 2.94.12 ॥
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित्।
स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ 2.94.13 ॥
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन्।
घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ 2.94.14 ॥
यदीह शरदोऽनेकास्त्वया सार्द्धमनिन्दिते।
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ 2.94.15 ॥
बहुपुष्पफले रम्ये नानाद्विजगणायुते।
विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ 2.94.16 ॥
अनेन वनवासेन मया प्राप्तं फलद्वयम्।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ 2.94.17 ॥
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह।
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ 2.94.18 ॥
इदमेवामृतं प्राहू राज्ञि राजर्षयः परे।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ 2.94.19 ॥
शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ 2.94.20 ॥
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव।
ओषध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ॥ 2.94.21 ॥
केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः।
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ 2.94.22 ॥
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः।
चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शुभः ॥ 2.94.23 ॥
कुष्ठपुन्नागस्थगरभूर्जपत्रोत्तरच्छदान्।
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ 2.94.24 ॥
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः।
कामिभिर्वनिते पश्य फलानि विविधानि च ॥ 2.94.25 ॥
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून्।
पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥ 2.94.26 ॥
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च।
रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ 2.94.27 ॥