तया महत्या यायिन्या ध्वजिन्या वनवासिनः।
अर्द्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥ 2.93.1 ॥
ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः।
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ 2.93.2 ॥
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः।
वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ 2.93.3 ॥
सागरौघनिभा सेना भरतस्य महात्मनः।
महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः ॥ 2.93.4 ॥
अनालक्ष्याचिरं कालं तस्मिन् काले बभूव भूः**।
चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ 2.93.5 ॥
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ 2.93.6 ॥
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ 2.93.7 ॥
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी।
एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ 2.93.8 ॥
गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति।
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ 2.93.9 ॥
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु।
नीला इवातपापाये तोयं तोयधरा घनाः ॥ 2.93.10 ॥
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम्।
मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ 2.93.11 ॥
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः।
वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ 2.93.12 ॥
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी।
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ 2.93.13 ॥
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्।
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ 2.93.14 ॥
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति।
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ 2.93.15 ॥
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान्।
एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥ 2.93.16 ॥
एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान्।
एतमाविशतः शीघ्रमधिवासं पतत्त्रिणः ॥ 2.93.17 ॥
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा।
तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ 2.93.18 ॥
मृगा मृगीभिः सहिता बहवः पृषता वने।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ 2.93.19 ॥
साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ 2.93.20 ॥
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः।
विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥ 2.93.21 ॥
ते समालोक्य धूमाग्रमूचुर्भरतमागताः।
नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ 2.93.22 ॥
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ।
मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ 2.93.23 ॥
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम्।
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ 2.93.24 ॥
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः।
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ 2.93.25 ॥
एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ 2.93.26 ॥
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः।
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ 2.93.27 ॥