०९२ भरतप्रस्थानम्

ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः।
कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ 2.92.1 ॥
तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम्।
हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥ 2.92.2 ॥
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता।
समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥ 2.92.3 ॥
तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च।
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ 2.92.4 ॥
सुखोषितोऽस्मि भगवन् समग्रबलवाहनः।
तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ 2.92.5 ॥
अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः।
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥ 2.92.6 ॥
आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम।
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ 2.92.7 ॥
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः।
आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥ 2.92.8 ॥
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम्।
प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ 2.92.9 ॥
भरतार्द्धतृतीयेषु योजनेष्वजने वने।
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ 2.92.10 ॥
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी।
पुष्पितद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ 2.92.11 ॥
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः।
तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ 2.92.12 ॥
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते।
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ 2.92.13 ॥
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः।
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ 2.92.14 ॥
वेपमाना कृशा दीना सह देव्या सुमित्रया।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥ 2.92.15 ॥
असमृद्धेन कामेन सर्वलोकस्य गर्हिता।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ 2.92.16 ॥
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम्।
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ 2.92.17 ॥
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः।
विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव ॥ 2.92.18 ॥
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः।
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ 2.92.19 ॥
यामिमां भगवन् दीनां शोकानशनकर्शिताम्।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ 2.92.20 ॥
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम्।
कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ 2.92.21 ॥
[इयं सुमित्रा दुःखार्ता देवी राज्ञश्च मध्यमा।] कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ 2.92.22 ॥
एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ 2.92.23 ॥
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ।
राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ 2.92.24 ॥
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम्।
ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ 2.92.25 ॥
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्।
यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ 2.92.26 ॥
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा।
स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥ 2.92.27 ॥
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा।
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ 2.92.28 ॥
न दोषेणावगन्तव्या कैकेयी भरत त्वया।
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ 2.92.29 ॥
देवानां दानवानां च ऋषीणां भावितात्मनाम्।
हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ 2.92.30 ॥
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्।
आमन्त्र्य भरतः सेन्यं युज्यतामित्यचोदयत् ॥ 2.92.31 ॥
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान्।
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥ 2.92.32 ॥
गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः।
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ॥ 2.92.33 ॥
विविधान्यपि यानानि महान्ति च लघूनि च।
प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ 2.92.34 ॥
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः।
रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा ॥ 2.92.35 ॥
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्।
आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥ 2.92.36 ॥
सा प्रयाता महासेना गजवाजिरथाकुला।
दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ 2.92.37 ॥
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः।
गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ 2.92.38 ॥
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान्।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ 2.92.39 ॥