०९१ भरद्वाजकृतातिथ्यम्

कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ 2.91.1 ॥
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम्।
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ 2.91.2 ॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ 2.91.3 ॥
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम्।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ 2.91.4 ॥
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः।
कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ 2.91.5 ॥
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्।
ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् ॥ 2.91.6 ॥
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा।
यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ 2.91.7 ॥
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ 2.91.8 ॥
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा।
न हिंस्युरिति तेनाहमेक एव समागतः ॥ 2.91.9 ॥
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा।
ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ 2.91.10 ॥
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ 2.91.11 ॥
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्**।
आह्वानमन्त्रमाह–आह्वय इत्यादिना।आह्वय इत्यात्मनेपदमार्षम्।विश्वकर्मा सर्वशिल्पकर्ता।त्वष्टा तु तक्षणेन गृहादिनिर्माता।यद्वा त्वष्टारमेव चेत्यवधारणेनासुरविश्वकर्म्मा मयो व्यावर्त्यते।तत्रातिथ्यनिमित्तं संविधीयतां गृहादिसंविधानं क्रियताम् ॥ 2.91.12 ॥
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ 2.91.13 ॥
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ 2.91.14 ॥
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम्।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ 2.91.15 ॥
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून्।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ 2.91.16 ॥
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम्।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ 2.91.17 ॥
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः।
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ 2.91.18 ॥
वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत्।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ 2.91.19 ॥
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम्।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ 2.91.20 ॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ 2.91.21 ॥
एवं समाधिना युक्तस्तेजसाऽप्रतिमेन च।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ 2.91.22 ॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ 2.91.23 ॥
मलयं दर्दुरं चैव ततः स्वेदनुदोऽनिलः।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ 2.91.24 ॥
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे**।
पुष्पवृष्टयोऽभ्यवर्त्तन्त, आसन्नित्यर्थः ॥ 2.91.25 ॥
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः।
प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ 2.91.26 ॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च।
विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ 2.91.27 ॥
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम्।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ 2.91.28 ॥
बभूव हि समा भूमिः समन्तात्पञ्चयोजना।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ 2.91.29 ॥
तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ 2.91.30 ॥
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत्।
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ 2.91.31 ॥
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम्।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ 2.91.32 ॥
सितमेघनिभं चापि राजवेश्मसु तोरणम्।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ 2.91.33 ॥
दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत्।
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ 2.91.34 ॥
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा।
वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ 2.91.35 ॥
अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ 2.91.36 ॥
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च।
भरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ 2.91.37 ॥
आसनं पूजयामास रामायाभिप्रणम्य च।
वालव्यजनमादाय न्यषीदत् सचिवासने ॥ 2.91.38 ॥
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः।
ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ 2.91.39 ॥
ततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ 2.91.40 ॥
तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः।
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ 2.91.41 ॥
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ 2.91.42 ॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः।
आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ 2.91.43 ॥
याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ 2.91.44 ॥
नारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ 2.91.45 ॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना।
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ 2.91.46 ॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ 2.91.47 ॥
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः।
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ 2.91.48 ॥
ततः सरलतालाश्च तिलका नक्तमालकाः।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ 2.91.49 ॥
शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः।
मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ 2.91.50 ॥
सुराः सुरापाः पिबत पायसं च बुभुक्षिताः।
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ 2.91.51 ॥
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु।
अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ 2.91.52 ॥
संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः।
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ 2.91.53 ॥
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान्।
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ 2.91.54 ॥
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान्।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ 2.91.55 ॥
नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः।
मत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ 2.91.56 ॥
तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः।
अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ 2.91.57 ॥
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान्।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ 2.91.58 ॥
इति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ 2.91.59 ॥
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः।
भरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ 2.91.60 ॥
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः।
समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ 2.91.61 ॥
ततो भुक्तवतां तेषां तदन्नममृतोपमम्।
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ 2.91.62 ॥
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः।
बभूवुस्ते भृशं दृप्ताः सर्वे चाहतवाससः ॥ 2.91.63 ॥
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः।
बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ 2.91.64 ॥
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा।
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ 2.91.65 ॥
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः।
फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ 2.91.66 ॥
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः।
ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ 2.91.67 ॥
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ 2.91.68 ॥
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ 2.91.69 ॥
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च।
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ 2.91.70 ॥
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ 2.91.71 ॥
ह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे।
बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ 2.91.72 ॥
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ 2.91.73 ॥
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान्।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ 2.91.74 ॥
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान्।
पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ 2.91.75 ॥
आञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ 2.91.76 ॥
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम्।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ 2.91.77 ॥
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान्।
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ 2.91.78 ॥
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ 2.91.79 ॥
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम्।
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ 2.91.80 ॥
इत्येवं रममाणानां देवानामिव नन्दने।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ 2.91.81 ॥
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम्।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ 2.91.82 ॥
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः।
तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥ 2.91.83 ॥