०९० भरद्वाजदर्शनम्

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः।
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ 2.90.1 ॥
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ 2.90.2 ॥
ततः सन्दर्शने तस्य भरद्वाजस्य राघवः।
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ 2.90.3 ॥
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः।
सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ 2.90.4 ॥
अबुध्यत महातेजाः सुतं दशरथस्य तम्**।
वसिष्ठसाहचर्य्यादिति भावः ॥ 2.90.5 ॥
ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च।
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ 2.90.6 ॥
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु।
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ 2.90.7 ॥
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्।
शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ 2.90.8 ॥
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ 2.90.9 ॥
किमिहागमने कार्य्यं तव राज्यं प्रशासतः।
एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मनः ॥ 2.90.10 ॥
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम्।
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ 2.90.11 ॥
नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः।
वनवासी भवेतीह समाः किल चतुर्दश ॥ 2.90.12 ॥
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि।
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ 2.90.13 ॥
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह।
पर्य्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ॥ 2.90.14 ॥
हतोऽस्मि यदि मामेवं भगवानपि मन्यते।
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ 2.90.15 ॥
न चैत दिष्टं माता मे यदवोचन्मदन्तरे।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ 2.90.16 ॥
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ 2.90.17 ॥
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि।
शंस मे भगवन् रामः क्व सम्प्रति महीपतिः ॥ 2.90.18 ॥
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः।
उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥ 2.90.19 ॥
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ 2.90.20 ॥
जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति।
अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ 2.90.21 ॥
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम्।
असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ 2.90.22 ॥
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः।
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ 2.90.23 ॥
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मजः ॥ 2.90.24 ॥