०८९ भरतादीनां प्रयागवनगमनम्

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः।
भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ 2.89.1 ॥
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम्।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ 2.89.2 ॥
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन्।
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदितः ॥ 2.89.3 ॥
इति संवदतोरेवमन्योन्यं नरसिंहयोः।
आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥ 2.89.4 ॥
कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम्।
कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥ 2.89.5 ॥
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम्।
रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥ 2.89.6 ॥
सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम्।
गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥ 2.89.7 ॥
ततो गुहः सन्त्वरितं श्रुत्वा भरतशासनम्।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ 2.89.8 ॥
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा।
नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ 2.89.9 ॥
ते तथोक्ताः समुत्थाय त्वरिता राजशासनात्।
पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥ 2.89.10 ॥
अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः।
शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः ॥ 2.89.11 ॥
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत्।
तामारुरोह भरतः शत्रुघ्नश्च महाबलः ॥ 2.89.12 ॥
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये।
अनन्तरं राजदारास्तथैव शकटापणाः ॥ 2.89.13 ॥
आवासमादीपयतां तीर्थं चाप्यवगाहताम्।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ 2.89.14 ॥
पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥ 2.89.15 ॥
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम्।
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ 2.89.16 ॥
ताः स्म गत्वा परं तीरमवरोप्य च तं जनम्।
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ 2.89.17 ॥
सवैजयन्तास्तु गजा गजारोहप्रचोदिताः।
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ 2.89.18 ॥
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥ 2.89.19 ॥
सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम्।
मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥ 2.89.20 ॥
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम्।
द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः प्रतस्थे ॥ 2.89.21 ॥
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य।
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ॥ 2.89.22 ॥