०८८ भरतप्रतिज्ञा

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः।
इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ 2.88.1 ॥
अब्रवीज्जननीः सर्वा इह तेन महात्मना।
शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ 2.88.2 ॥
महाभागकुलीनेन महाभागेन धीमता।
जातो दशरथे नोर्व्यां न रामः स्वप्तुमर्हति ॥ 2.88.3 ॥
अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये।
शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ 2.88.4 ॥
प्रासादाग्रविमानेषु वलभीषु च सर्वदा।
हैमराजतभौमेषु वरास्तरणशालिषु ॥ 2.88.5 ॥
पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु।
पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ॥ 2.88.6 ॥
प्रासादवरवर्य्येषु शीतवत्सु सुगन्धिषु।
उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥ 2.88.7 ॥
गीतवादित्रनिर्घोषैर्वराभरणनिस्वनैः।
मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ 2.88.8 ॥
वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः।
गाथाभिरनुरूपाभिस्तुतिभिश्च परन्तपः ॥ 2.88.9 ॥
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा।
मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥ 2.88.10 ॥
न नूनं दैवतं किञ्चित् कालेन बलवत्तरम्।
यत्र दाशरथी रामो भूमावेव शयीत सः ॥ 2.88.11 ॥
विदेहराजस्य सुता सीता च प्रियदर्शना।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ 2.88.12 ॥
इयं शय्या मम भ्रातुरिदं हि परिवर्त्तितम्।
स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ॥ 2.88.13 ॥
मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे।
तत्रतत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥ 2.88.14 ॥
उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा।
तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ 2.88.15 ॥
मन्ये भर्त्तुः सुखा शय्या येन बाला तपस्विनी।
सुकुमारी सती दुःखं न विजानाति मैथिली ॥ 2.88.16 ॥
हा हन्तास्मि नृशंसोऽहं यत् सभार्यः कृते मम।
ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत् ॥ 2.88.17 ॥
सार्वभौमकुले जातः सर्वलोकस्य सम्मतः।
सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ॥ 2.88.18 ॥
कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः।
सुखभागी न दुःखार्हः शयितो भुवि राघवः ॥ 2.88.19 ॥
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षणः।
भ्रातरं विषमे काले यो राममनुवर्त्तते ॥ 2.88.20 ॥
सिद्धार्था खलु वैदेही पतिं यानुगता वनम्।
वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ 2.88.21 ॥
अकर्णधारा पृथिवी शून्येव प्रतिभाति मा।
गते दशरथे स्वर्गं रामे चारण्यमाश्रिते ॥ 2.88.22 ॥
न च प्रार्थयते कश्चिन्मनसापि वसुन्धराम्।
वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ 2.88.23 ॥
शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्।
अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ 2.88.24 ॥
अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम्।
शत्रवो नाभिमन्यन्ते भक्षान् विषकृतानिव ॥ 2.88.25 ॥
अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा।
फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ 2.88.26 ॥
तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने।
तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ 2.88.27 ॥
वसन्तं भ्रातुरर्थाय शत्रुध्नो माऽनुवत्स्यति।
लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति ॥ 2.88.28 ॥
अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः।
अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ 2.88.29 ॥
प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते।
ततोऽनुवत्स्यामि चिराय राघवं वने वसन्नार्हति मामुपेक्षितुम् ॥ 2.88.30 ॥