०८७ रामचरितप्रस्तावः

गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्।
ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम् ॥ 2.87.1 ॥
सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः।
पुण्डरीकविशालाक्षस्तरुणः प्रियदर्शनः ॥ 2.87.2 ॥
प्रत्याश्वस्य मुहूर्त्तं तु कालं परमदुर्मनाः।
पपात सहसा तोत्रैर्ह्यतिविद्ध इव द्विपः ॥ 2.87.3 ॥
तदवस्थं तु भरतं शत्रुघ्नोऽनन्तरस्थितः।
परिष्वज्य रुरोदोच्चैर्विसञ्ज्ञः शोककर्शितः ॥ 2.87.4 ॥
ततः सर्वाः समापेतुर्मातरो भरतस्य ताः।
उपवासकृशा दीना भर्त्तुर्व्यसनकर्शिताः ॥ 2.87.5 ॥
ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्।
कौसल्या त्वनुसूत्यैनं दुर्मनाः परिषस्वजे ॥ 2.87.6 ॥
वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी।
परिपप्रच्छ भरतं रुदन्ती शोकलालसा ॥ 2.87.7 ॥
पुत्र व्याधिर्न ते कच्चिच्छरीरं परिबाधते।
अद्य राजकुलस्यास्य त्वदधीनं च जीवितम् ॥ 2.87.8 ॥
त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते।
वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः ॥ 2.87.9 ॥
कच्चिन्नु लक्ष्मणे पुत्र श्रुतं ते किञ्चिदप्रियम्।
पुत्रे वा ह्येकपुत्रायाः सहभार्ये वनं गते ॥ 2.87.10 ॥
स मुहूर्त्तं समाश्वस्य रुदन्नेव महायशाः।
कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत् ॥ 2.87.11 ॥
भ्राता मे क्वावसद्रात्रौ क्व सीता क्व च लक्ष्मणः।
अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे ॥ 2.87.12 ॥
सोऽब्रवीद्भरतं हृष्टो निषादाधिपतिर्गुहः।
यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ ॥ 2.87.13 ॥
अन्नमुच्चावचं भक्षाः फलानि विविधानि च।
रामा याम्यवहारार्थं बहु चोपहृतं मया ॥ 2.87.14 ॥
तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः।
न तु तत्प्रत्यगृह्णात् स क्षत्रधर्ममनुस्मरन् ॥ 2.87.15 ॥
न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा।
इति तेन वयं राजन्ननुनीता महात्मना ॥ 2.87.16 ॥
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः।
औपवास्यं तदाऽकार्षीद्राघवः सह सीतया ॥ 2.87.17 ॥
ततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा।
वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ 2.87.18 ॥
सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम्।
स्वयमानीय बर्हीषि क्षिप्रं राघवकारणात् ॥ 2.87.19 ॥
तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया।
प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥ 2.87.20 ॥
एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्।
यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ ॥ 2.87.21 ॥
नियम्य पृष्ठे तु तलाङ्गुलित्रवान् शरैः सुपूर्णाविषुधी परन्तपः।
महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम् ॥ 2.87.22 ॥
ततस्त्वहं चोत्तमबाणचापधृत् स्थितोऽभवं तत्र स यत्र लक्ष्मणः।
अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा ॥ 2.87.23 ॥