आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः।
भरतायाप्रमेयाय गुहो गहनगोचरः ॥ 2.86.1 ॥
तं जाग्रतं गुणैर्युक्तं शरचापासिधारिणम्।
भ्रातृगुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रुवम् ॥ 2.86.2 ॥
इयं तात सुखा शय्यात्वदर्थमुपकल्पिता।
प्रत्याश्वसि हि शेष्वास्यां सुखं राघवनन्दन ॥ 2.86.3 ॥
उचितोऽयं जनः सर्वो दुःखानां त्वं सुखोचितः।
धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम् ॥ 2.86.4 ॥
नहि रामात् प्रियतरो ममास्ति भुवि कश्चन।
मोत्सुकोभूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः ॥ 2.86.5 ॥
अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः।
धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ 2.86.6 ॥
सोऽहं प्रियसखं रामं शयानं सह सीतया।
रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह ॥ 2.86.7 ॥
नहि मेऽविदितं किञ्चिद्वनेऽस्मिंश्चरतः सदा।
चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि ॥ 2.86.8 ॥
एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना।
अनुनीता वयं सर्वे धर्ममेवानुपश्यता ॥ 2.86.9 ॥
कथं दाशरथौ भूमौ शयाने सह सीतया।
शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ 2.86.10 ॥
यो न देवासूरैः सर्वैः शक्यः प्रसहितुं युधि।
तं पश्य गुह संविष्टं तृणेषु सह सीतया ॥ 2.86.11 ॥
महता तपसा लब्धो विविधैश्च परिश्रमैः।
एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥ 2.86.12 ॥
अस्मिन् प्रव्राजिते राजा न चिरं वर्त्तयिष्यति।
विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ 2.86.13 ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः।
निर्घोषोपरतं नूनमद्य राजनिवेशनम् ॥ 2.86.14 ॥
कौसल्या चैव राजा च तथैव जननी मम।
नाशंसे यदि जीवेयुः सर्वे ते शर्वरीमिमाम् ॥ 2.86.15 ॥
जीवेदपि च मे माता शत्रुघ्नस्यान्ववेक्षया।
दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति ॥ 2.86.16 ॥
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्।
राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ 2.86.17 ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते।
प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ 2.86.18 ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्।
हर्म्यप्रासादसम्पन्नां सर्वरत्नविभूषिताम् ॥ 2.86.19 ॥
गजाश्वरथसम्बाधां तूर्यनादविनादिताम्।
सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम् ॥ 2.86.20 ॥
आरामोद्यानसम्पूर्णां समाजोत्सवशालिनीम्।
सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ 2.86.21 ॥
अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम्।
निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि ॥ 2.86.22 ॥
परिदेवयमानस्य तस्यैवं सुमहात्मनः।
तिष्ठतो राजपुत्रस्य शर्वरी साऽत्यवर्त्तत ॥ 2.86.23 ॥
प्रभाते विमले सूर्ये कारयित्वा जटावुभौ।
अस्मिन् भागीरथीतीरे सुखं सन्तारितौ मया ॥ 2.86.24 ॥
जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ।
वरेषुचापासिधरौ परन्तपौ व्यवेक्षमाणौ सह सीतया गतौ ॥ 2.86.25 ॥