०८५ गुहकृतं मार्गदर्शनम्

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्।
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्यर्थसंहितम् ॥ 2.85.1 ॥
ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे।
यो मे त्वमीदृशीं सेनामेकोभ्यर्चितुमिच्छसि ॥ 2.85.2 ॥
इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम्।
अब्रवीद्भरतः श्रीमान् निषादाधिपतिं पुनः ॥ 2.85.3 ॥
कतरेण गमिष्यामि भरद्वाजाश्रमं गुह।
गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः ॥ 2.85.4 ॥
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः।
अब्रवीत् प्राञ्जलिर्वाक्यं गुहो गहनगोचरः ॥ 2.85.5 ॥
दाशास्त्वाऽनुगमिष्यन्ति धन्विनः सुसमाहिताः।
अहं त्वाऽनुगमिष्यामि राजपुत्र महायशः ॥ 2.85.6 ॥
कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः।
इयं ते महती सेना शङ्कां जनयतीव मे ॥ 2.85.7 ॥
तमेवमभिभाषन्तमाकाश इव निर्मलः।
भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत् ॥ 2.85.8 ॥
माभूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि।
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मतः ॥ 2.85.9 ॥
तं निवर्त्तयितुं यामि काकुत्स्थं वनवासिनम्।
बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते ॥ 2.85.10 ॥
स तु संहृष्टवदनः श्रुत्वा भरतभाषितम्।
पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः ॥ 2.85.11 ॥
धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले।
अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि ॥ 2.85.12 ॥
शाश्वती खलु ते कीर्त्तिर्लोकाननुचरिष्यति।
यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि ॥ 2.85.13 ॥
एवं सम्भाषमाणस्य गुहस्य भरतं तदा।
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्त्तत ॥ 2.85.14 ॥
सन्निवेश्य स तां सेनां गुहेन परितोषितः।
शत्रुघ्नेन सह श्रीमान् शयनं पुनरागमत् ॥ 2.85.15 ॥
रामचिन्तामयः शोको भरतस्य महात्मनः।
उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः ॥ 2.85.16 ॥
अन्तर्दाहेन दहनः सन्तापयति राघवम्।
वनदाहाभिसन्तप्तं गूढोग्निरिव पादपम् ॥ 2.85.17 ॥
प्रसृतस्सर्वगात्रेभ्यः स्वेदं शोकाग्निसम्भवम्।
यथा सूर्यांशुसन्तप्तो हिमवान् प्रसृतो हिमम् ॥ 2.85.18 ॥
ध्याननिर्दरशैलेन विनिश्वसितधातुना।
दैन्यपादपसङ्घेन शोकायासाधिश्रृङ्गिणा ॥ 2.85.19 ॥
प्रमोहानन्तसत्त्वेन सन्तापौषधिवेणुना आक्रान्तो दुःखशैलेन महता कैकयीसुतः ॥ 2.85.20 ॥
विनिःश्वसन् वै भृशदुर्मनास्ततः प्रमूढसञ्ज्ञः परमापदं गतः।
शमं न लेभे हृदयज्वरार्दितो नरर्षभो यूथगतो यथर्षभः ॥ 2.85.21 ॥
गुहेन सार्द्धं भरतः समागतो महानुभावः सजनः समाहितः।
सुदुर्मनास्तं भरतं तदा पुनर्गुहः समाश्वासयदग्रजं प्रति ॥ 2.85.22 ॥