ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्।
निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितोऽब्रवीत् ॥ 2.84.1 ॥
महतीयमितः सेना सागराभा प्रदृश्यते।
नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ 2.84.2 ॥
यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः।
स एष हि महाकायः कोविदारध्वजो रथे ॥ 2.84.3 ॥
बन्धयिष्यति वा दाशानथवाऽस्मान् वधिष्यति।
अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ 2.84.4 ॥
सम्पन्नां श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्ल्लभाम्।
भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥ 2.84.5 ॥
भर्त्ता चैव सखा चैव रामो दाशरथिर्मम।
तस्यार्थकामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत ॥ 2.84.6 ॥
तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम्।
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ 2.84.7 ॥
नावां शतानां पञ्चानां कैवर्त्तानां शतंशतम्।
सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ 2.84.8 ॥
यदा तुष्टस्तु भरतो रामस्येह भविष्यति।
सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ 2.84.9 ॥
इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च।
अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ 2.84.10 ॥
तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान्।
भरतायाचचक्षेऽथ विनयज्ञो विनीतवत् ॥ 2.84.11 ॥
एष ज्ञातिसहस्रेण स्थपतिः परिवारितः।
कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ 2.84.12 ॥
तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः।
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ 2.84.13 ॥
एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम्।
उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ 2.84.14 ॥
लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः।
आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ 2.84.15 ॥
निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्।
निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ 2.84.16 ॥
अस्ति मूलं फलं चैव निषादैः समुपाहृतम्।
आर्द्रञ्च मांसं शुष्कञ्च वन्यं चोच्चावचं महत् ॥ 2.84.17 ॥
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्।
अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ 2.84.18 ॥