ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्।
प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ॥ 2.83.1 ॥
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः।
अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान् ॥ 2.83.2 ॥
नवनागसहस्राणि कल्पितानि यथाविधि।
अन्वयुर्भरतं यान्तमिक्ष्वाकुकुलनन्दनम् ॥ 2.83.3 ॥
षष्टीरथसहस्राणि धन्विनो विविधायुधाः।
अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ 2.83.4 ॥
शतं सहस्राण्यश्वानां समारूढानि राघवम्।
अन्वयुर्भरतं यान्तं सत्यसन्धं जितेन्द्रियम् ॥ 2.83.5 ॥
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी।
रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥ 2.83.6 ॥
प्रयाताश्चार्यसङ्घाता रामं द्रष्टुं सलक्ष्मणम्।
तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ 2.83.7 ॥
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ 2.83.8 ॥
दृष्ट एव हि नः शोकमपनेष्यति राघवः।
तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ 2.83.9 ॥
इत्येवं कथयन्तस्ते सम्प्रहृष्टाः कथाः शुभाः।
परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ 2.83.10 ॥
ये च तत्रापरे सर्वे सम्मता ये च नैगमाः।
रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तथा ॥ 2.83.11 ॥
मणिकाराश्च ये केचित् कुम्भकाराश्च शोभनाः।
सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ 2.83.12 ॥
मायूरकाः क्राकचिका रोचका वेधकास्तथा।
दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥ 2.83.13 ॥
सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः।
स्नापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा ॥ 2.83.14 ॥
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः।
शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्त्तकास्तथा ॥ 2.83.15 ॥
समाहिता वेदविदो ब्राह्मणा वृत्तसम्मताः।
गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ 2.83.16 ॥
सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः।
सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥ 2.83.17 ॥
प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम्।
भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ 2.83.18 ॥
ते गत्वा दूरमध्वानं रथयानाश्वकुञ्जरैः।
समासेदुस्ततो गङ्गां श्रृङ्गिबेरपुरं प्रति ॥ 2.83.19 ॥
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः।
निवसत्यप्रमादेन देशं तं परिपालयन् ॥ 2.83.20 ॥
उपेत्य तीरं गङ्गायाश्चक्रवाकैरलङ्कृतम्।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ 2.83.21 ॥
निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्।
भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः ॥ 2.83.22 ॥
निवेशयत मे सैन्यमभिप्रायेण सर्वतः।
विश्रान्ताः प्रतरिष्यामः श्व इदानीमिमां नदीम् ॥ 2.83.23 ॥
दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ 2.83.24 ॥
तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः।
न्यवेशयंस्तां छन्देन स्वेन स्वेन पृथक्पृथक् ॥ 2.83.25 ॥
निवेश्य गङ्गमनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम्।
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्त्तनम् ॥ 2.83.26 ॥