तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्।
हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥ 2.66.1 ॥
कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता।
उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ 2.66.2 ॥
सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम्।
त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ॥ 2.66.3 ॥
विहाय मां गतो रामो भर्ता च स्वर्गतो मम।
विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ 2.66.4 ॥
भर्तारं तं परित्यज्य का स्त्रीदैवतमात्मनः।
इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ 2.66.5 ॥
न लुब्धो बुद्ध्यते दोषान् किम्पाकमिव भक्षयन्।
कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हतम् ॥ 2.66.6 ॥
अनियोगे नियुक्तेन राज्ञा रामं विवासितम्।
सभार्यं जनकः श्रुत्वा परितप्स्यत्यहं यथा ॥ 2.66.7 ॥
स मामनाथां विधवां नाद्य जानाति धार्मिकः।
रामः कमलपत्राक्षो जीवनाशमितो गतः ॥ 2.66.8 ॥
विदेहराजस्य सुता तथा सीता तपस्विनी।
दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ 2.66.9 ॥
नदतां भीमघोषाणां निशासु मृगपक्षिणाम्।
निशम्य नूनं सन्त्रस्ता राघवं संश्रयिष्यति ॥ 2.66.10 ॥
वृद्धश्चैवाल्पपुत्रश्च वेदैहीमनुचिन्तयन्।
सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम् ॥ 2.66.11 ॥
साहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता।
इदं शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥ 2.66.12 ॥
तां ततः सम्परिष्वज्य विलपन्तीं तपस्विनीम्।
व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः ॥ 2.66.13 ॥
तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम्।
राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥ 2.66.14 ॥
न तु सङ्कलनं राज्ञो विना पुत्रेण मन्त्रिणः।
सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम् ॥ 2.66.15 ॥
तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्।
हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन् ॥ 2.66.16 ॥
बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः।
रुदन्त्यः शोकसन्तप्ताः कृपणं पर्यदेवयन् ॥ 2.66.17 ॥
हा महाराज रामेण सततं प्रियवादिना।
विहीनाः सत्यसन्धेन किमर्थं विजहासि नः ॥ 2.66.18 ॥
कैकेय्या दुष्टभावाया राघवेण वियोजिताः।
कथं पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥ 2.66.19 ॥
स हि नाथः सदास्माकं तव च प्रभुरात्मवान्।
वनं रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥ 2.66.20 ॥
त्वया तेन च वीरेण विना व्यसनमोहिताः।
कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ 2.66.21 ॥
यया तु राजा रामश्च लक्ष्मणश्च महाबलः।
सीतया सह सन्त्यक्ताः स कमन्यं न हास्यति ॥ 2.66.22 ॥
ता बाष्पेण च संवीताः शोकेन विपुलेन च।
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रियः ॥ 2.66.23 ॥
निशा चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता।
पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ 2.66.24 ॥
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना।
शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम् ॥ 2.66.25 ॥
गते तु शोकात् त्रिदिवं नराधिपे महीतलस्थासु नृपाङ्गनासु च।
निवृत्तचारः सहसा गतो रविः प्रवृत्तचारा रजनी ह्युपस्थिता ॥ 2.66.26 ॥
ऋते तु पुत्राद्दहनं महीपतेर्न रोचयन्ते सुहृदः समागताः।
इतीव तस्मिन् शयने न्यवेशयन् विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ 2.66.27 ॥
गतप्रभा द्यौरिव भास्करं विना व्यपेतनक्षत्रगणेव शर्वरी।
पुरी बभासे रहिता महात्मना न चास्रकण्ठाकुलमार्ग चत्वरा ॥ 2.66.28 ॥
नराश्च नार्यश्च समेत्य सङ्घशो विगर्हमाणा भरतस्य मातरम्।
तदा नगर्यां नरदेवसङ्क्षये बभूवुरार्ता न च शर्म लेभिरे ॥ 2.66.29 ॥