०६५ अन्तःपुरशोकः

अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि।
वन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् ॥ 2.65.1 ॥
सूताः परमसंस्कारामङ्गलाश्चोत्तमश्रुताः।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥ 2.65.2 ॥
राजानं स्तुवतां तेषामुदात्ताभिहिताशिषाम्।
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥ 2.65.3 ॥
ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः।
अपदानान्युदाहृत्य पाणिवादानवादयन् ॥ 2.65.4 ॥
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥ 2.65.5 ॥
व्याहृताः पुण्यशब्€दाश्च वीणानां चापि निस्वनाः।
आशीर्गेयं च गाथानां पूरयामास वेश्म तत् ॥ 2.65.6 ॥
ततः शुचिसमाचाराः पर्युपस्थानकोविदाः।
स्त्रीवर्षधरभूयिष्ठा उपतस्थुर्यथापुरम् ॥ 2.65.7 ॥
हरिचन्दनसम्पृक्तमुदकं काञ्चनैर्घटैः।
आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि ॥ 2.65.8 ॥
मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्।
उपनिन्युस्तथाप्यन्याः कुमारीबहुलाः स्त्रियः ॥ 2.65.9 ॥
सर्वलक्षणसम्पन्नं सर्वं विधिवदर्चितम्।
सर्वं सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम् ॥ 2.65.10 ॥
तत्तु सूर्योदयं यावत्सर्वं परिसमुत्सुकम्।
तस्थावनुपसम्प्राप्तं किंस्विदित्युपशङ्कितम् ॥ 2.65.11 ॥
अथा याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः।
ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन् ॥ 2.65.12 ॥
तथाप्युचितवृत्तास्ता विनयेन नयेन च।
न ह्यस्य शयनं स्पृष्ट्वा किञ्चिदप्युपलेभिरे ॥ 2.65.13 ॥
ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः।
प्रतिस्रोतस्तृणाग्राणां सदृशं सञ्चकाशिरे ॥ 2.65.14 ॥
अथ संवेपमानानां स्त्रीणां दृष्ट्वा च पार्थिवम्।
यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः ॥ 2.65.15 ॥
कौसल्या च सुमित्रा च पुत्रशोकपराजिते।
प्रसुप्ते न प्रबुध्येते यथाकालसमन्विते ॥ 2.65.16 ॥
निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता।
न व्यराजत कौसल्या तारेव तिमिरावृता ॥ 2.65.17 ॥
कौसल्यानन्तरं राज्ञः सुमित्रा तदनन्तरम्।
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ 2.65.18 ॥
ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तु नृपम्।
सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत ॥ 2.65.19 ॥
ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः।
करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ 2.65.20 ॥
तासामाक्रन्दशब्देन सहसोद्गतचेतने।
कौसल्या च सुमित्रा च त्यक्तनिद्रे बभूवतुः ॥ 2.65.21 ॥
कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम्।
हा नाथेति परिक्रुश्€य पेततुर्धरणीतले ॥ 2.65.22 ॥
सा कोसलेन्द्रदुहिता वेष्टमाना महीतले।
न बभ्राज रजोध्वस्ता तारेव गगनाच्च्युता ॥ 2.65.23 ॥
नृपे शान्तगुणे जाते कौसल्यां पतितां भुवि।
अपश्यंस्ताः स्त्रियः सर्वा हतां नागवधूमिव ॥ 2.65.24 ॥
ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः।
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ॥ 2.65.25 ॥
ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः।
येन स्थिरीकृतं भूयस्तद्गृहं समनादयत् ॥ 2.65.26 ॥
तत्समुत्€त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम्।
सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम् ॥ 2.65.27 ॥
सद्योप निपतितानन्दं दीनविक्लवदर्शनम्।
बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः ॥ 2.65.28 ॥
अतीतमाज्ञाय तु पार्थिवर्षभं यशस्विनं सम्परिवार्यपत्नयः।
भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ 2.65.29 ॥