वधमप्रतिरूपं तु महर्षेस्तस्य राघवः।
विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ॥ 2.64.1 ॥
तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रियः।
एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ॥ 2.64.2 ॥
ततस्तं घटमादाय पूर्णं परमवारिणा।
आश्रमं तमहं प्राप्य यथाख्यातपथं गतः ॥ 2.64.3 ॥
तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ।
अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ 2.64.4 ॥
तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ।
तामाशां मत्कृते हीनावुदासीनावनाथवत् ॥ 2.64.5 ॥
शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः।
तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ॥ 2.64.6 ॥
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत।
किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ 2.64.7 ॥
यन्निमित्तमिदं तात सलिले क्रीडितं त्वया।
उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ 2.64.8 ॥
यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया।
न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ 2.64.9 ॥
त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम्।
समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥ 2.64.10 ॥
मुनिमव्यक्तया वाचा तमहं सज्जमानया।
हीनव्यञ्जनया प्रेक्ष्य भीतोभीत इवाब्रवम् ॥ 2.64.11 ॥
मनसः कर्मचेष्टाभिरभिसंस्तभ्य वाग्बलम्।
आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ 2.64.12 ॥
क्षत्ित्रयोऽहं दशरथो नाहं पुत्त्रो महात्मनः।
सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ 2.64.13 ॥
भगवंश्चापहस्तोऽहं सरयूतीरमागतः।
जिघांसुः श्वापदं कञ्चिन्निपाने चागतं गजम् ॥ 2.64.14 ॥
तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः।
द्विपोऽयमिति मत्वाऽयं बाणेनाभिहतो मया ॥ 2.64.15 ॥
गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि।
विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ 2.64.16 ॥
भगवन् शब्दमालक्ष्य मया गजजिघांसुना।
विसृष्टोऽम्भसि नाराचस्ततस्ते निहतः सुतः ॥ 2.64.17 ॥
ततस्तस्यैव वचनादुपेत्य परितप्यतः।
स मया सहसा बाण उद्धृतो मर्मतस्तदा ॥ 2.64.18 ॥
स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः।
भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च ॥ 2.64.19 ॥
शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनिः**।
शापोवाऽनुग्रहो वा यः कर्तव्यस्तं करोत्वित्यर्थः ॥ 2.64.20 ॥
स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना।
नाशकत्तीव्रमायासमकर्तुं भगवानृषिः ॥ 2.64.21 ॥
स बाष्पपूर्ण वदनो निश्वसन् शोककर्शितः।
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ 2.64.22 ॥
यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम्।
फलेन्मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा ॥ 2.64.23 ॥
ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्**।
ज्ञानकृतस्तु विशेषतश्च्यावयेत्।अविलम्बो विशेषः ॥ 2.64.24 ॥
सप्तधा तु फलेन्मूर्द्धा मुनौ तपसि तिष्ठति।
ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि ॥ 2.64.25 ॥
अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान्।* कुलं न स्यात् भवान् कुतः स्यात् जीवेत्, इति मामुवाचेत्यन्वयः ॥ 2.64.26 ॥
नय नौ नृपतं देशमिति मां चाभ्यभाषत।
अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ 2.64.27 ॥
रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम्।
शयानं भुवि निस्सञ्ज्ञं धर्मराजवशङ्गतम् ॥ 2.64.28 ॥
अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ।
अस्पर्शयमहं पुत्रं तु मुनिं सह भार्यया ॥ 2.64.29 ॥
तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ।
निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ॥ 2.64.30 ॥
नाभिवादयसे माऽद्य न च मामभिभाषसे।
किं नु शेषे च भूमौ त्वं वत्स किं कुपितो ह्यसि ॥ 2.64.31 ॥
न त्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक।
किन्नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥ 2.64.32 ॥
कस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम्।
अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ॥ 2.64.33 ॥
को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः।
श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ॥ 2.64.34 ॥
कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्।
भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ 2.64.35 ॥
इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्।
कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ 2.64.36 ॥
तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति।
श्वो मया सह गन्तासि जनन्या च समेधितः ॥ 2.64.37 ॥
उभावपि च शोकार्तावनाथौ कृपणो वने।
क्षिप्रमेव गमिष्यावस्त्वयाऽहीनौ यमक्षयम् ॥ 2.64.38 ॥
ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्।
क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ॥ 2.64.39 ॥
दातुमर्हति धर्मात्मा लोकपालो महायशाः।
ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ॥ 2.64.40 ॥
अपापोऽसि यदा पुत्र निहतः पापकर्मणा।
तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥ 2.64.41 ॥
यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनिवर्तिनः।
हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥ 2.64.42 ॥
यां गतिं सगरः शैब्यो दिलीपो जनमेजयः।
नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ 2.64.43 ॥
या गतिः सर्वसाधूनां स्वाध्यायात्तपसा च या।
या भूमिदस्याहिताग्नेरेकपत्नीव्रतस्य च ॥ 2.64.44 ॥
गोसहस्रप्रदातॄणां या या गुरुभृतामपि।
देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ 2.64.45 ॥
न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम्।
स तु यास्यति येन त्वं निहतो मम बान्धवः ॥ 2.64.46 ॥
एवं स कृपणं तत्र पर्यदेवयतासकृत्।
ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ 2.64.47 ॥
स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः।
स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ॥ 2.64.48 ॥
आबभाषे च तौ वृद्धौ सह शक्रेण तापसः।
आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ 2.64.49 ॥
स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात्।
भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ 2.64.50 ॥
एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता।
आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ 2.64.51 ॥
स कृत्वा तूदकं तूर्णं तापसः सह भार्यया।
मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ 2.64.52 ॥
अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा।
यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ॥ 2.64.53 ॥
त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः।
तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ 2.64.54 ॥
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्।
एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ॥ 2.64.55 ॥
अज्ञानात्तु हतो यस्मात् क्षत्ित्रयेण त्वया मुनिः।
तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥ 2.64.56 ॥
त्वामप्ये तादृशो भावः क्षिप्रमेव गमिष्यति।
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥ 2.64.57 ॥
एवं शापं मयि न्यस्य विलप्य करुणं बहु।
चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥ 2.64.58 ॥
तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम्।
तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा ॥ 2.64.59 ॥
तस्यायं कर्मणो देवि विपाकः समुपस्थितः।
अपथ्यैः सह सम्भुक्तो व्याधिमन्नरसो यथा ॥ 2.64.60 ॥
तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः।
यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ॥ 2.64.61 ॥
चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मा स्पृश।
इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ॥ 2.64.62 ॥
सदृशं तत्तु तस्यैव यदनेन कृतं मयि*।
सदृशं तत्तु तस्यैव यदनेन कृतं मयि।इति क्रमः ॥ 2.64.63 ॥
दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ॥ 2.64.64 ॥
यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा।
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति नहि मानवाः ॥ 2.64.65 ॥
चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते।
दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥ 2.64.66 ॥
अतस्तु किं दुःखतरं यदहं जीवितक्षये।
नहि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ 2.64.67 ॥
तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः।
उच्छोषयति मे प्राणान् वारिस्तोकमिवातपः ॥ 2.64.68 ॥
न ते मनुष्यादेवास्ते ये चारुशुभकुण्डलम्।
मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ 2.64.69 ॥
पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्।
धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥ 2.64.70 ॥
सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥ 2.64.71 ॥
निवृत्तवनवासं तमयोध्यां पुनरागतम्।
द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ॥ 2.64.72 ॥
कौसल्ये चित्तमोहेन हृदयं सीदतीव मे।
वेदये न च संयुक्तान् शब्दस्पर्शरसानहम् ॥ 2.64.73 ॥
चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे।
क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ 2.64.74 ॥
अयमात्मभवः शोको मामनाथमचेतनम्।
संसादयति वेगेन यथा कूलं नदीरयः ॥ 2.64.75 ॥
हा राघव महाबाहो हा ममायासनाशन।
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥ 2.64.76 ॥
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि।
हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ 2.64.77 ॥
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ।
राजा दशरथः शोचञ्जीवितान्मुपागमत् ॥ 2.64.78 ॥
यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः।
गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ 2.64.79 ॥