०६३ दशरथेन पूर्वकृतबालवधकथनम्

प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः।
अथ राजा दशरथः स चिन्तामभ्यपद्यत ॥ 2.63.1 ॥
रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम्।
आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ 2.63.2 ॥
सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः।
विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः ॥ 2.63.3 ॥
स राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम्।
अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम् ॥ 2.63.4 ॥
स राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः।
कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ 2.63.5 ॥
यदाचरति कल्याणि शुभं वा यदि वाऽशुभम्।
तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥ 2.63.6 ॥
गुरुलाघवमर्थानामारम्भे कर्मणां फलम्।
दोषं वा यो न जानाति स बाल इति होच्यते ॥ 2.63.7 ॥
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ 2.63.8 ॥
अविज्ञाय फलं यो हि कर्मत्वेवानुधावति।
स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ 2.63.9 ॥
सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम्।
रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ 2.63.10 ॥
लब्धशब्देन कौसल्ये कुमारेण धनुष्मता।
कुमारः शब्दवेधीति मया पापमिदं कृतम् ॥ 2.63.11 ॥
तदिदं मेऽनुसम्प्राप्तं देवि दुःखं स्वयङ्कृतम्।
सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम् ॥ 2.63.12 ॥
यथान्यः पुरुषः कश्चित् पलाशैर्मोहितो भवेत्।
एवं ममाप्याविज्ञातं शब्दवेध्यमयं फलम् ॥ 2.63.13 ॥
देव्यनूढा त्वमभवो युवराजो भवाम्यहम्।
ततः प्रावृडनुप्राप्ता मदकामविवर्धनी ॥ 2.63.14 ॥
उपास्य हि रसान् भौमांस्तप्त्वा च जगदंशुभिः।
परेताचरितां भीमां रविराविशते दिशम् ॥ 2.63.15 ॥
उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः।
ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः ॥ 2.63.16 ॥
क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पत€त्€ित्रणः।
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥ 2.63.17 ॥
पतितेनाम्भसा च्छन्नः पतमानेन चासकृत्।
आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः ॥ 2.63.18 ॥
पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि।
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥ 2.63.19 ॥
तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी।
व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम् ॥ 2.63.20 ॥
निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम्।
अन्यं वा श्वापदं कञ्चिज्जिघांसुरजितेन्द्रियः ॥ 2.63.21 ॥
अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः।
अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ 2.63.22 ॥
ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम्।
शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ॥ 2.63.23 ॥
हाहेति पततस्तोये बाणाभिहतमर्मणः।
व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः** ॥ 2.63.24 ॥
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी।
कथमस्मद्विधे शस्त्रं निपते त्तु तपस्विनि ॥ 2.63.25 ॥
प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः।
इषुणाभिहतः केन कस्य वा किं कृतं मया ॥ 2.63.26 ॥
ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः।
कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ 2.63.27 ॥
जटाभारधरस्यैव वल्कलाजिनवाससः।
को वधेन ममार्थी स्यात् किं वास्यापकृतं मया ॥ 2.63.28 ॥
एवं निष्फलमारब्धं केवलानर्थसंहितम्।
न कश्चित् साधु मन्येत यथैव गुरुतल्पगम् ॥ 2.63.29 ॥
नाहं तथानुशोचामि जीवितक्षयमात्मनः।
मातरं पितरं चोभावनुशोचामि मद्वधे ॥ 2.63.30 ॥
तदेतन्मिथुनं वृद्धं चिरकालभृतं मया।
मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ॥ 2.63.31 ॥
वृद्धौ च मातापितरावहं चैकेषुणा हतः।
केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ 2.63.32 ॥
कराभ्यां सशरं चापं व्यथितस्यापद्भुवि**।
श्रुत्वा करुणाजनकं वचः श्रुत्वा, स्थितस्येति शेषः** ॥ 2.63.33 ॥
तस्याहं करुणं श्रुत्वा निशि लालपतो बहु।
सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः ॥ 2.63.34 ॥
तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः।
अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ 2.63.35 ॥
अवकीर्णजटाभारं प्रविद्धकलशोदकम्।
पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम् ॥ 2.63.36 ॥
स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम्।
इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा ॥ 2.63.37 ॥
किं तवापकृतं राजन् वने निवसता मया।
जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया ॥ 2.63.38 ॥
एकेन खलु बाणेन मर्मण्यभिहते मयि।
द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ 2.63.39 ॥
तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ।
चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः ॥ 2.63.40 ॥
न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा।
पिता यन्मां न जानाति शयानं पतितं भुवि ॥ 2.63.41 ॥
जान्ननपि च किं कुर्यादशक्तिरपरिक्रमः।
भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ॥ 2.63.42 ॥
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव।
न त्वामनुदहेत् क्रुद्धो वनं वह्निरिवैधितः ॥ 2.63.43 ॥
इयमेकपदी राजन् यतो मे पितुराश्रमः।
तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् ॥ 2.63.44 ॥
विशल्यं कुरु मां राजन् मर्म मे निशितः शरः।
रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ 2.63.45 ॥
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति।
इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥ 2.63.46 ॥
दुःखितस्य च दीनस्य मम शोकातुरस्य च।
लक्षयामास हृदये चिन्तां मुनिसुतस्तदा ॥ 2.63.47 ॥
ताम्यमानः स मां कृच्छ्रादुवाच परमार्तवत्।
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥ 2.63.48 ॥
संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम्।
ब्रह्महत्याकृतं पापं हृदयादपनीयताम् ॥ 2.63.49 ॥
न द्विजातिरहं राजन् माभूत्ते मनसो व्यथा।
शूद्रायामस्मि वैश्येन जातो जनपदाधिप ॥ 2.63.50 ॥
इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः।
विघूर्णतो विचेष्टस्य वेपमानस्य भूतले ॥ 2.63.51 ॥
तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम्।
स मामुद्वीक्ष्य सन्त्रस्तो जहौ प्राणांस्तपोधनः ॥ 2.63.52 ॥
जलार्द्रगात्रं तु विलप्य कृच्छ्रान्मर्मव्रणं सन्ततमुच्छ्वसन्तम्।
ततः सरय्वां तमहं शयानं समीक्ष्य भद्रेऽस्मि भृशं विषण्णः ॥ 2.63.53 ॥