एवं तु क्रुद्धया राजा राममात्रा सशोकया।
श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ॥ 2.62.1 ॥
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः।
अथ दीर्घेण कालेन सञ्ज्ञामाप परन्तपः ॥ 2.62.2 ॥
स सञ्ज्ञामुपलभ्यैव दीर्घमुष्णञ्च निश्वसन्।
कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ॥ 2.62.3 ॥
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम्।
यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ॥ 2.62.4 ॥
अमनास्तेन शोकेन रामशोकेन च प्रभुः।
द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ॥ 2.62.5 ॥
दह्यमानः स शोकाभ्यां कौसल्यामाह भूपतिः।
वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः ॥ 2.62.6 ॥
प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः।
वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ॥ 2.62.7 ॥
भर्त्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा।
धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ॥ 2.62.8 ॥
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा।
नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम् ॥ 2.62.9 ॥
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्।
कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ॥ 2.62.10 ॥
सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्।
सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः ॥ 2.62.11 ॥
प्रसीद शिरसा याचे भूमौ निपतितास्मि ते।
याचितास्मि हता देव हन्तव्याहं नहि त्वया ॥ 2.62.12 ॥
उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते।
ऐहिकामुष्मिकसुखभागिनी न भवतीत्यर्थः** ॥ 2.62.13 ॥
जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्।
पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥ 2.62.14 ॥
शोको नाशयते धैर्यं शोको नाशयते श्रुतम्।
शोको नाशयते सर्वं नास्ति शोकसमो रिपुः ॥ 2.62.15 ॥
शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः।
सोढुमापतितः शोकः सुसूक्ष्मोपि न शक्यते ॥ 2.62.16 ॥
वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते।
यः शोकहतहर्षायाः पञ्चवर्षोपमो मम ॥ 2.62.17 ॥
तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्द्धते।
नदीनामिव वेगेन समुद्रसलिलं महत् ॥ 2.62.18 ॥
एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः।
मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत ॥ 2.62.19 ॥
तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः।
शोकेन च समाक्रान्तो निद्राया वशमेयिवान् ॥ 2.62.20 ॥