वनं गते धर्मपरे रामे रमयतां वरे।
कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ 2.61.1 ॥
यद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः।
सानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ 2.61.2 ॥
कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया।
दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ 2.61.3 ॥
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता।
कथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ॥ 2.61.4 ॥
भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्।
वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ 2.61.5 ॥
गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता।
कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ 2.61.6 ॥
महेन्द्रध्वजसङ्काशः क्वनु शेते महाभुजः।
भुजं परिघसङ्काशमुपधाय महाबलः ॥ 2.61.7 ॥
पद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम्।
कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ 2.61.8 ॥
वज्रसारमयं नूनं हृदयं मे न संशयः।
अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥ 2.61.9 ॥
यत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः।
निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ 2.61.10 ॥
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति।
जह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते ॥ 2.61.11 ॥
भोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान्।
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ 2.61.12 ॥
तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः।
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ 2.61.13 ॥
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः।
नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ 2.61.14 ॥
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते।
भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ 2.61.15 ॥
न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति।
एवमेव नरव्याघ्रः परलीढं न मन्यते ॥ 2.61.16 ॥
हविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः।
नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ 2.61.17 ॥
तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव।
नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ 2.61.18 ॥
नैवंविधमसत्कारं राघवो मर्षयिष्यति।
बलवानिव शार्दूलो वालधेरवमर्शनम् ॥ 2.61.19 ॥
नैतस्य सहिता लोका भयं कुर्युर्महामृधे।
अधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ 2.61.20 ॥
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः।
युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ 2.61.21 ॥
स तादृशः सिंहबलो वृषभाक्षो नरर्षभः।
स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ 2.61.22 ॥
द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः।
यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ 2.61.23 ॥
गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः।
तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ 2.61.24 ॥
तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः।
न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ 2.61.25 ॥
हतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिमिश्च।
हता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ 2.61.26 ॥
इमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः।
ततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ 2.61.27 ॥