ततो भूतोपसृष्टेव वेपमाना पुनःपुनः।
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ 2.60.1 ॥
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः।
तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ 2.60.2 ॥
निवर्तय रथं शीघ्रं दण्डकान्नय मामपि।
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ 2.60.3 ॥
बाष्पवेगोपहतया स वाचा सज्जमानया।
इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ 2.60.4 ॥
त्यज शोकञ्च मोहञ्च सम्भ्रमं दुःखजं तथा।
व्यवधूय च सन्तापं वने वत्स्यति राघवः ॥ 2.60.5 ॥
लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने।
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ 2.60.6 ॥
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव।
विस्रम्भं लभतेऽभीता रामे सन्न्यस्तमानसा ॥ 2.60.7 ॥
नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते।
उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ 2.60.8 ॥
नगरोपवनं गत्वा यथा स्म रमते पुरा।
तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ 2.60.9 ॥
बालेव रमते सीताऽबालचन्द्रनिभानना।
रामारामे ह्यधीनात्मा विजनेऽपि वेन सती ॥ 2.60.10 ॥
तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम्।
अयोध्यापि भवेत्तस्या रामहीना तथा वनम् ॥ 2.60.11 ॥
पथि पृच्छति वैदेही ग्रामांश्च नगराणि च।
गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि ॥ 2.60.12 ॥
रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी।
अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता ॥ 2.60.13 ॥
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम्।
कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ 2.60.14 ॥
ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम्।
ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ 2.60.15 ॥
अध्वना वातवेगेन सम्भ्रमेणातपेन च।
न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा ॥ 2.60.16 ॥
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्।
वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥ 2.60.17 ॥
अलक्तरसरक्ताभावलक्तरसवर्जितौ।
अद्यापि चरणौ तस्याः पद्मकोशसमप्रमौ ॥ 2.60.18 ॥
नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी।
इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा ॥ 2.60.19 ॥
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता।
नाहारयति सन्त्रासं बाहू रामस्य संश्रिता ॥ 2.60.20 ॥
न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः।
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् ॥ 2.60.21 ॥
विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः।
वनेरता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते ॥ 2.60.22 ॥
तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता।
न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च ॥ 2.60.23 ॥